अप-इति उपसर्गराहित्ये तु व्ययः इति। अस्य अर्थः उक्तः शब्दरत्नावल्याम् - अर्थस्य अपगमः / वित्तसमुत्सर्गः इति। (खरच् इति जनभाषया उच्यते)। तथा हि मनुसंहिताायामुक्तम् -“अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्॥”
नाशः-अर्थे अपि अयं शब्दः बहुत्र प्रयुज्यते - यथा भागवद्पुराणे - “ताविमौ वै भगवतो हरेवंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥”
दानम् - इत्यर्थे अपि अस्य व्यवहारः उपलभ्यते रघुवंशस्य द्वादशसर्गे - “आत्मानं मुमुचे तस्मात् एकबेत्रव्ययेन सः ॥” इति। एवं प्रकारेण अयं शब्दः अत्यन्तम् अर्थवहः बह्वर्थबोधकश्च भवति।
इतोऽपि क्वचित् नाममात्रे वर्षविशेषे च अस्य प्रयोगः उपलभ्यते।
क्वचित् दानार्थे विशिष्टरुपेण प्रयोगः स्यात्।