अथ बहुलकृष्णागुरुधूपधूमपटलान्धकारितदिगन्तरे मृदितपारिजातकुसुममाल्यपरिमलमनोहरे प्रशान्तसकलजनकलकलरवे तस्मिन् सहस्रस्तम्भमण्डपे सा खलु पूर्वम् अनेकनरपतिनयनकुमुदवनचन्द्रिकायितलावण्यापि अद्य परिहृतसकलविभ्रमविलासा मन्त्रकीलितेव वनदेवता निभृतं दर्भासनम् अध्यास्ते। गलितं तदस्याः फेनपटलपाण्डुरं चीनक्षौमं यत्पुरा शरीरलावण्यप्रच्छादनकपटकेन मांसलस्तनतटम् आविश्चकार; अधुना तु शुष्कमृत्तिकाधूसरं वसनं वसाना सा मदनमहाराजाभिषेकदुन्दुभिध्वनिचौराणि मणिमयनूपुराणि मूकं कारयामास॥ १॥
सा तत्र जलनिमग्नकांस्यभेरीभङ्कारगम्भीरेण स्वरेण कोकिलकूजितललितं कण्ठध्वनिम् अतिक्रम्य न शृङ्गाररसं नापि कटाक्षविशिखविक्षेपमपि तु अयसि लग्नमलावरणमिव हृदयक्षयकारिणं दारुणं विषादम् आविश्चकार। पश्यत- तस्याः अधरपक्ष्मशिखालग्नः ताम्रपर्णीप्रभवस्थूलमुक्ताफलविडम्बकः दीपप्रभासम्पर्कतरलितः स एक एव बाष्पबिन्दुः पतनभयादिव बद्धधृतिः अश्वमेधतुरगरुधिरादपि गरीयान् प्रभावं जनयति। यत्र खलु सौन्दर्यम् उत्थितं रेणुवत् सुलभं तत्रेदं दुर्लभं विषाददर्शनम्॥ २॥
तदाकर्णनविस्मितहृदये क्षितिपाले निश्चलहस्तासु चित्रलिखितास्विव चामरग्राहिणीषु अधोमुखेषु कविवरेषु च सा विलासमयीम् अप्सरःकान्तिम् अन्तर्धाय कामस्य पुष्पमालां परित्यज्य आदरस्य लौहदण्डमिव गृह्णती पूजनीया कापि देवतामूर्तिरिव गौरवपदम् आलुलम्बे॥ ३॥
१
तब उस सहस्रस्तम्भों से युक्त विशाल मण्डप में, जहाँ गहन कृष्णागुरु-धूप के धुएँ की परतों से दिशाएँ अंधकारमय हो उठी थीं, और जहाँ पारिजात-मालाओं की सुगन्ध से वातावरण मनोहर बन गया था, तथा जनसमूह का कोलाहल शान्त हो चुका था—वहाँ वह देवी, जो कभी अनेक राजाओं की दृष्टि में चन्द्रिका-सी शोभा बिखेरती थी, आज समस्त चंचल विलासों को त्यागकर मानो मन्त्रबद्ध वनदेवता की भाँति, गम्भीरता से दर्भासन पर विराजमान हुई।
उसका पूर्व का श्वेत-फेनवत् चीन-रेशमी वस्त्र, जो कभी उसके शरीर की लावण्य-छवि को छिपाते हुए मांसल स्तनों को प्रकट करता था, अब त्यक्त हो चुका था। आज वह शुष्क मृत्तिका-रज से धूसरित वस्त्र धारण किए थी, और कामदेव के महोत्सव में गूँजने वाले दुन्दुभि-नाद को मौन कर देने वाले उसके मणिमय नूपुर भी अब निःशब्द हो गए थे।
२
वहाँ, जल में डूबी कांस्य-भेरी की गम्भीर ध्वनि से भी अधिक प्रबल स्वर में, उसने कोकिल-कूजन की मधुरता को लाँघते हुए, न शृंगार का रस प्रकट किया, न कटाक्ष-बाणों का चपल खेल; बल्कि लोहे पर जमी मलिन परत की भाँति हृदय को क्षीण कर देने वाला दारुण विषाद ही प्रकट किया।
देखो—उसके अधरों के कोने पर, पलकों की रेखा से लिपटा हुआ, ताम्रपर्णी की उत्पत्ति-सा स्थूल मोती का आभास देने वाला, दीप-ज्योति के स्पर्श से काँपता हुआ, एकमात्र अश्रुबिन्दु ठहरा हुआ था। मानो पतन के भय से वह दृढ़ता से बँधा हो। उसका प्रभाव अश्वमेध-यज्ञ के घोड़े के रक्त से भी अधिक महान प्रतीत होता था। जहाँ सौन्दर्य तो धूलकण-सा सहज उपलब्ध होता है, वहाँ ऐसा विषाद-दर्शन अत्यन्त दुर्लभ है।
३
उस स्वर को सुनकर विस्मित हृदय वाले राजा, स्थिर हाथों वाली चामर-धारिणियाँ, और अधोमुख कविवर—सब स्तब्ध रह गए। वहाँ वह, जो कभी विलासमयी अप्सरा-सी शोभा बिखेरती थी, कामदेव की पुष्पमाला त्यागकर, आदर का लौहदण्ड मानो धारण करती हुई, पूजनीय देवमूर्ति-सी गौरवपूर्ण पद पर आसीन हो गई।
किञ्च मम मनसि कुतूहलम् उदेति—किं ‘विषादमुक्ताविभ्रमः’ केवलमेव काव्यालङ्कारः, उत मानवचित्तस्य सूक्ष्मो विवेचनप्रयत्नः?
अत्र सौन्दर्यस्य वर्णनेन सह क्षणभङ्गुरत्वं, मोहः, अन्तःशून्यता च एकत्र उपन्यस्यन्ते—कस्मात्?
किं लेखकः सौन्दर्यस्य महिमानं वदति, उत तस्यैव मायायाः गाम्भीर्यं प्रश्नयति?
यूयं किं मन्यध्वे—मोहः विषादस्य मूलम्, उत विषादः मोहस्य फलम्?
किञ्चिद् अलङ्काररूपेण, किञ्चिद् मानवचित्तस्य सूक्ष्मविवेचनरूपेण।
सौन्दर्यं हि क्षणभङ्गुरं, मोहजनकं, अन्तःशून्यतायाः कारणं च भवति।
तस्मात् कविना न केवलं रमणीयता प्रदर्श्यते, अपि तु तस्य मायायाः गाम्भीर्यं अपि सूचितम्।
यत्र मोहः, तत्र विषादः; यत्र विषादः, तत्र मोहस्य बीजम्।
उभयमपि परस्परं सम्बद्धं, इव रात्रिदिवौ।
परन्तु अत्रैव मम एकं सन्देहम् उदेति।
यदि सौन्दर्यं क्षणभङ्गुरं, मोहजनकम्, अन्तःशून्यता-हेतुः च भवति इति स्वीक्रियते,
तर्हि कविः तस्य वर्णनं किमर्थं पुनः पुनः अलङ्कृत्या उपनयति?
क्षणभङ्गुरस्य वस्तुनः सौन्दर्यं—किमिदं विरोधाभासं न जनयति?
अथवा—
कविः विषादस्य कारणं न दर्शयति, अपि तु मनुष्यस्य अन्तर्मनसि निहितं ‘रमणीयस्यापि अनिर्वचनीयं विषादबीजम्’ इति रहस्यं सूचयति?
भवतः मतं यथार्थम्,
किन्तु अस्य काव्यस्य रहस्यं—
‘मोहः-विषादः-सौन्दर्यम्’ इति त्रयाणां परस्परसम्बन्धः—
एव चर्चायाः विषयः भवितुमर्हति।
प्रश्नः जायते मनस्येव -
कविः सौन्दर्यं दोषरहितं मन्यते, उत सौन्दर्यस्य अन्तर्गतं विषादमेव प्रकटयति?”
सौन्दर्यं यद्यपि क्षणभङ्गुरं, तस्यैव अन्तःस्थं विषादबीजं मनसि सञ्चरति।
तस्मात् कविः पुनः पुनः रमणीयं वर्णयन्,
न केवलं मोहं जनयति, अपि तु गम्भीरं चिन्तनं जागरयति।
मोहः, विषादः, सौन्दर्यम्—एते त्रयः न पृथक्,
एकस्य अन्तः अन्यः निहितः।
एष एव काव्यस्य रहस्यरमणीयत्वम्।