🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Vimal Kumar Pandey (विमलकुमारपाण्डेयः) Public
    ११/२५/२०२५, ४:५७:३९ अ (11/25/2025, 4:57:39 PM)
    दूरीकरोति दुरितं विमलीकरोति
    चेतश्चिरन्तनमघं चुलुकीकरोति
    भूतेषु किञ्च करुणां बहुलीकरोति
    सत्सङ्गतिः कथय किं न करोति पुंसाम्।

    #सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)

    लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव। तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव। यतः स्वार्थपराः एव अधिकाः सन्ति लोके। तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति। मनः शुद्धं भवति। पुरा कृतं पापमपि भस्म भवति। अपि च प्राणिनां विषये दया अधिका भवति। अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति।
    Comment
    Views ५७.८ सह.
    Delete
    3 comments
    Profile pic
    Dr. Rahul MaityPublic
    ११/२५/२०२५, ६:२२:३९ अ (11/25/2025, 6:22:39 PM)
    सतां सङ्गो हि दुर्लभो लोके...
    DislikeCommentDelete
    Profile pic
    सुमन्तमण्डलःPublic
    ११/२७/२०२५, ३:५०:३८ अ (11/27/2025, 3:50:38 PM)
    अत्युत्तमं विवेचनम्!
    सज्जनसङ्गस्य महिमा मनसि नूतनप्रकाशं जनयति।
    DislikeCommentDelete
    Profile pic
    Prema ShreePublic
    १/१०/२०२६, १०:५०:४९ अ (1/10/2026, 10:50:49 PM)
    अतीव सुन्दरं सुभाषितम्।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓