शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः ॥
गुरुविषयकः शास्त्रप्रसिद्धः अयं कश्चन प्रसिद्धः श्लोकः , अत्र गुरोः षड्भेदाः प्रपञ्चिताः। अत्र अहम् एतेषां पृथक् पृथक् उदाहरणं ज्ञातुकामः। रामायणमहाभारतादिषु कथाम् उल्लिख्य वक्तुं शक्नोतीति वा यत् अत्र अयं प्रेरकः, अयं सूचकः, अयं वाचकः इति। यदि जानाति कृपया वदतु।