लेखकः - पाणिनिः
- महेश्वरप्रसादेन पाणिनिः माहेश्वरसूत्रम् अवाप्तवान्।
- चतुर्दशमाहेश्वरसूत्रम् आश्रित्य पाणिनिना अष्टाध्यायी विलिखिता।
- ग्रन्थे अष्टौ अध्यायाः सन्ति।
- प्रत्यध्यायम् चत्वारः पादाः सन्ति। आहत्य द्वात्रिंशत् पादाः सन्ति।
- ग्रन्थे प्रायः चतुःसहस्रं सूत्राणि सन्ति।
- सपादसप्ताध्यायी त्रिपादी च भेदेन ग्रन्थः द्विधा विभाजितो वर्तते।
- नैकानि व्यकरणानि पाणिनेः पूर्वाचार्यैः लिखितानि, तत्परमपि नैके आचार्याः स्वीयं व्यकरणग्रन्थं लिलेखुः।
- ऐन्द्रचान्द्रं काशकृत्स्नम् इत्यादयः व्यकरणग्रन्थाः आसन् परन्तु पाणिनीयव्याकरणेन तानि सर्वाणि व्यपगतानि सन्ति।
- अद्यत्वे संस्कृतभाषायाः यत्स्वरूपं तस्याधारस्तु पाणिनीयव्यकरणमेव।
- पाणिनीयव्यकरणस्यैव सर्वशास्त्रोपकारकत्वं वर्तते इत्यत्र तु नास्ति संशयः।
इतः परं कस्य ग्रन्थस्य विषये ज्ञातुमिच्छन्ति भवन्तः, वदन्तु प्रयत्नं करोमि तस्मिन् विषये स्वज्ञानं प्रस्तोतुम्।
महाभाष्यम्