🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    महाभाष्यम्

    Dr. Rahul Maity Public
    १२/३/२०२५, ७:५६:०० अ (12/3/2025, 7:56:00 PM)
    महाभाष्यम् 
    1. भाष्यम् -  समेषामपि शास्त्राणां कश्चन क्रमः अस्ति। कश्चन आचार्यः आदौ तस्मिन् शास्त्रे सूत्रं रचयति, तदनन्तरं सूत्रोक्तेषु विषयेषु सति सन्देहे अनुक्ते विषये वार्तिककारः वार्तिकं रचयति।  ततश्च तयोः व्याख्यानार्थं कश्चित् भाष्यं विरचति। 
    2. वार्तिकम् व्याकरणशास्त्रे पाणिनेः सूत्ररचनात् अनन्तरं, वररुचिः (कात्यायनः) वार्तिकाणि रचयामास।
    3. किमर्थमिदं महाभाष्यम् - न्यायसूत्रभाष्यम्, योगसूत्रभाष्यम्, वेदान्तसूत्रभाष्यम् सर्वाणि अपि भाष्याणि एव, पतञ्जलेः भाष्यं महाभाष्यं किमर्थमिति चेत् - इष्टिवचनत्वात्। अर्थात् क्वचित् केषाञ्चित् सूत्राणाम् अर्थपरिष्करणाय भाष्यकारः इष्टिवचनं प्राह, अर्थात् सति सन्देहे भाष्यस्यैव प्रामाण्यम्। प्रसिद्धं हि शास्त्रे - उत्तरोत्तरमुनीनां प्रामाण्यम्। अर्थात् सति विरोधे सूत्रग्रन्थेन सह भाष्यस्यैव ग्राह्यत्वम् अतः इदं महाभाष्यमिति उच्यते।
    4. सूत्रवार्तिकयोः अर्थबोधे उपकारकः ग्रन्थः भाष्यग्रन्थः
    5. रचयिता -  भाष्यं रचितवान् महर्षिः पतञ्जलिः। 
    6. आह्निकम् -  महाभाष्ये अध्यायः आह्निक इति नाम्ना आख्यायते।
    7. श्रूयते च यत् एकस्मिन् दिवसे यावत् पाठ्यते स्म, तावदंशः एव एकस्मिन् आह्निके भवति स्म।
    8. महाभाष्यस्य प्रथमः आह्निकः पश्पशाह्निकम् इत्युच्यते।
    9. समेषां पाणिनीयसूत्राणां चर्चा अस्मिन् न वर्तते। 1689 सूत्राणामेव व्याख्यानं कृतं पतञ्जलिना।
    10. विश्वविद्यालयादिषु आदितः नवमाह्निकमेव पाठ्यते प्रायः। अद्यत्वे तु कृत्स्नमहाभाष्यज्ञातारः दुर्लभाः। 
    11. अत्यन्तं निपुणशैल्या वार्तालापशैल्या लिखितः अयं ग्रन्थः। नैकानि लौकिकानि निदर्शनानि सन्ति ग्रन्थे। 
    12. पाणिनीयसूत्राणां तात्पर्यनिर्णयः महाभाष्यं विना सुदुष्करम्। अतः यद्यपि बहु नाधीये पठ पुत्र - महाभाष्यम् ..... (व्याकरणमिति वस्तुतः)


    Comment
    Views ५७.७ सह.
    Delete
    3 comments
    Profile pic
    कल्पिका - To Help YouPublic
    १२/३/२०२५, ८:०२:२३ अ (12/3/2025, 8:02:23 PM)
    #महाभाष्यम्
    DislikeCommentDelete
    Profile pic
    अरुणःPublic
    १२/४/२०२५, ८:००:०७ पू (12/4/2025, 8:00:07 AM)
    🙏🙏
    DislikeCommentDelete
    Profile pic
    ओङ्कारःPublic
    १२/४/२०२५, १०:३९:२० अ (12/4/2025, 10:39:20 PM)
    अत्युत्तमं विवेचनम्।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓