लघुसिद्धान्तकौमुदी -
अद्य पुस्तकपरिचयविभागे वरदराजाचार्यविरिचितस्य लघुसिद्धान्तकौमुद्याख्यस्य ग्रन्थस्य विषये वच्मि - मया व्याकरणशास्त्रपठनम् आरब्धम् अनेनैव ग्रन्थेन - अद्यापि सति समये कदाचित् उद्घाट्य पश्यामि एतत्। ये नुनतछात्राः संस्कृतं पठितुम् इच्छन्ति तेभ्यः अनुरोधः, अनेन प्रारभ्यताम् -१. रचयिता -
लघुसिद्धान्तकौमुद्याः रचयिता वरदराजाचार्यः अस्ति।
• Meaning: The author of Laghusiddhantakaumudi is Acharya Varadaraja.
२. आधारः - एषः ग्रन्थः भट्टोजिदीक्षितस्य 'सिद्धान्तकौमुदीमाधारीकृत्य लिखितोऽस्ति।
• Meaning: This book is written based on the massive work 'Siddhantakaumudi' by Bhattoji Dikshita.
३. उद्देश्यम् - "बालेभ्यः सुखेन व्याकरणबोधनम्" (अर्थात् नूतनछात्रेभ्यः सरलतया बोधयितुं) अस्य ग्रन्थस्य मुख्यम् उद्देश्यं वर्तते।
• Meaning: The main purpose of this book is "Balanam Sukhabodhaya" (meaning: to teach new students/beginners easily).
४. प्रवेशद्वारम् - पाणिनीय-व्याकरण-शास्त्रे प्रवेशं प्राप्तुम् यः अत्यन्तोत्सुकः, तत्कृते ग्रन्थोऽयमुपकारकोऽस्ति।
• Meaning: This book is very useful and famous for gaining entry into the science of Paninian grammar.
५. सूत्रसंख्या - अस्मिन् ग्रन्थे पाणिनेः अष्टाध्याय्याः प्रायः १२७५ (पञ्चसप्तत्यधिकद्वादशशतम्) मुख्यानि सूत्राणि सङ्गृहीतानि सन्ति।
• Meaning: Approximately 1275 important sutras from Panini's Ashtadhyayi are collected in this book.
६. प्रकरणम् - अत्र संज्ञा, सन्धिः, सुबन्तं, अव्ययम्, तिङन्तं, समासः, तद्धितः, कृदन्तं च इति विषयाः क्रमेण विवेचिताः सन्ति।
• Meaning: Here, topics like Samjna (terminology), Sandhi (conjunctions), Subanta (nouns/cases), Avyaya (indeclinables), Tinganta (verbs), Samasa (compounds), Taddhita (derivatives), and Kridanta (verbal suffixes) are explained in order.
७. सरलता - अस्मिन् ग्रन्थे सूत्राणां वृत्तिः लघ्वी (संक्षिप्ता) तथा अतिसरला अस्ति, येन छात्राः शीघ्रं विषयं अवगच्छन्ति।
• Meaning: In this book, the commentary (vritti) on the sutras is light (concise) and very simple, by which students understand the subject quickly.
८. उदाहरणानि - सूत्रार्थानां स्पष्टीकरणाय अत्र प्रसिद्धानि तथा सरलानि उदाहरणानि प्रदत्तानि।
• Meaning: Famous and simple examples are given here to clarify the meaning of the sutras.
९. महत्त्वम् - संस्कृतेन सम्भाषणं कर्तुं तथा साहित्यं पठितुं यत् व्याकरणज्ञानम् आवश्यकं, तत् सर्वं अनेन ग्रन्थेन लभ्यते।
• Meaning: Whatever grammar knowledge is required to converse in Sanskrit and read literature is all obtained through this book.
१०. प्रसिद्धिः - सम्पूर्णे भारतवर्षे तथा विदेशेषु अपि संस्कृत-पाठाशालासु व्याकरणस्य आरम्भः अनेनैव ग्रन्थेन भवति।
• Meaning: In all of India and even abroad, the beginning of grammar studies in Sanskrit schools happens with this very book.
#वरदराज #लघुसिद्धान्तकौमुदी #Laghusiddhantakaumudi #Varadraja #varadrajacharya #व्याकरणम् #पाणिनिः #उच्चारणम् #वर्णाः #वर्णविज्ञानम् #Sanskrit #Grammar #śikṣā #pāṇinīyaśikṣā #śikṣāśāstram #vyākaraṇam #pāṇiniḥ #uccāraṇam #varṇāḥ #varṇavijñānam #Sanskrit #Grammar