🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    संस्कृतसंरक्षणस्य दायित्वम्

    Vimal Kumar Pandey (विमलकुमारपाण्डेयः) Public
    १२/१८/२०२५, ४:०३:५० अ (12/18/2025, 4:03:50 PM)
    मित्राणि!
        स्वदेशस्य, स्वस्थानस्य, स्वजनस्य भाषायाः शिक्षणं प्रत्येकं जनस्य एकं सामाजिकं दायित्वम् । संस्कृतभाषा भारतीयानां स्वकीयाभाषा, पितृभिः प्रदत्ता भाषा, जनभाषा वा वर्तते । 
    समाजस्य अधिकांशजनाः यदि दैनन्दिकजीवने अपि इतरभाषां वक्तुम् आरभन्ते, तर्हि संस्कृतभाषा-वक्तॄणां सङ्ख्या शनैः न्यूनतां गच्छेदिति तु स्वाभाविकमेव । यदा संस्कृतवक्तॄणां सङ्ख्या कालक्रमेण न्यूनतां, शून्यतां वा गच्छेत् तदा भाषेयं मृतभाषारूपेण परिगणिता भवेत् । तथैव संस्कृतभाषया रचितानां समस्तसाहित्यानां चिह्नमपि लोकतः मार्जितं भवेत् । तस्मात् संस्कृतस्य सर्वाङ्गीणोन्नत्या सह समाजस्य प्रत्येकं जनस्य एकं नैतिकदायित्वं संलग्नं स्यात्, अत एव भारतीयसनातनिभिः संस्कृतसंरक्षणसम्बद्धस्य स्वदायित्वपालनस्य अत्यन्तमेव आवश्यकता अस्ति, अन्यथा भारतीयता, हिन्दुत्वं, संस्कृतिः, सनातन-परम्परा, यज्ञः, संस्कारः इत्यादिकं सर्वं विनश्येत् इत्यत्र न सन्देहः, कारणं संस्कृतं हि एतस्य सर्वस्य धारकं वाहकं चेति।
                    
    Comment
    Views ५७.७ सह.
    Delete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓