वैकुण्ठ एकादशी
चान्द्रमानपुष्यमासे शुक्लपक्षे एकादशीतिथिः परमपवित्रेति सर्वेषां सनातनधर्मीयाणां समेषाम् आस्तिकजनानां च विश्वासः। एतस्मिन् दिने विशेषरूपेण कलियुगप्रत्यक्षदैवस्य सप्तगिरिनाथस्य श्रीवेङ्कटेशस्य मन्दिरे अशेषभक्तजनाः सम्मर्दयन्ति देवदर्शनकांक्षिणः। अस्मिन् दिवसे देवालयनिर्मितेन वैकुण्ठद्वारेण प्रविश्य भगवतः दर्शनं ये प्राप्नुवन्ति ते कलिमलहरणेन मोक्षगामिनः भविष्यन्ति इति श्रूयते पुराणेषु। वैकुण्ठ एकादश्यां वैकुण्ठस्य द्वारोद्घाटनं भवति अतः एतद्दिने ये वेङ्कटेश्वरस्य दर्शनं प्राप्नुवन्ति ते जरामरणजात् संसारचक्रात् भवबन्धनात् मुक्ताः भवन्ति। अस्मिन् दिने भगवत भक्ताः निराहारं पालयन्तं प्रतिक्षणमपि भगवन्नाम सङ्कीर्तयन्तः उपवासं समाचरन्ति। ये केचित् वृद्धाः, अशक्ताः ते तु फलानि स्वीकृत्यं हरिं स्मरन्तः उपवासव्रतम् आचरन्ति । यदा सूर्यः उत्तरायणगः स्वपथः परिवर्तते, धनुर्मासस्य शुद्धैकादश्यां तिथौ 'वैकुण्ठ एकादशी पर्वः समाचर्यते । सूर्यः धनुराशिं प्रविश्य मकरसङ्क्रमणं यावत् सञ्चरति तन्मार्गमध्ये एषा वैकुण्ठ एकादशी समायाति । ये भक्ताः अस्यामेकादश्याम् उपवासव्रतम् आचरन्ति ते तु त्रयोविंशतिः एकादशीनां व्रतानां फलं प्राप्नुवन्ति इति पौराणिकाः आहुः।
वैकुण्ठ एकादशी - अत्र पदद्वयम् अस्ति। वैकुण्ठः नाम विष्णुलोकः। विष्णोः वैकुण्ठ इत्यपि नामास्ति। महाभारतस्य शान्तिपर्वणि श्रूयते यत् एकस्मिन् मन्वन्तरे श्रीमहाविष्णु वैकुण्ठ इति नाम्ना स्त्रीरूपमवतरत्। मासस्य दशमी तिथेरनन्तरम् आयाति एकादशी तिथिः । एषा श्रद्धधनैः वैष्णवैः व्रतरूपेण निराहारम् पावसपुरस्सरं सम्पाद्यते । दशम्याम् एक भुक्तः सन् एकादश्यां निराहारं वसन् श्रीहरिं मनसा ध्यायन् द्वादश्यां प्रातरुत्थाय नित्यकर्मणि समाप्य एकादशीव्रतम् उपसंहरेत् इति व्रताचरणविधिः। भगवत्समीपे एव वासः उपवासः कथ्यते ।
भक्तः शुचिर्भूत्वा भोगेषु निरासक्तः निरन्तरं भगवन्नाम स्मरन्, ध्यायन् वसेत् । अस्मिन् दिने भगवान् नारायणः स्वयं वैकुण्ठात् अवतीर्य भक्तेभ्यः दर्शनभाग्यं यच्छति। पुण्यप्रदमिदं दिनम् । मनुष्याणां पापानि हरति, सत्सङ्कल्पेन समारब्धेभ्यः कार्येभ्यः सफलतां च वितरति श्रीमहाविष्णुः । उत्तरद्वारेण भगवतः दर्शनं ये प्राप्नुवन्ति ते मुक्ता भवन्ति। एकादशी व्रताचरणेन देहदृढतां मानसिकस्वास्थ्यं च प्राप्यते । ‘शरीरमाद्यं खलु धर्मसाधनम्’ इति महाकवेः कालिदासस्य वचनम्। धर्मप्रचोदनाय शरीरनियन्त्रणाय इन्द्रियाणि च निगृहीतुम् एकादशीव्रतं महदुपकरोति। ‘एकादश – इन्द्रियाणि’ (पञ्चज्ञानेन्द्रियाणि+पञ्चकर्मेन्द्रियाणि+मनः) नियन्त्रयति एकादशी व्रतम्। एकादशीव्रतसमानम् आचरणं न विद्यते । नारदीयपुराणे एकादशीव्रताचरणं श्रेष्ठतरमिति सर्वेभ्यः अनायासेन आचरितुं योग्यमिति महर्षिणा व्यासेन निबोधितम् ।
वैकुण्ठ एकादशी कथा
भागवतोत्तमः नन्दगोपः श्रीकृष्णस्य सान्निध्ये एकादशी उपवासं समाचरति स्म। एकदा एकादशीव्रतं समाचर्य तदनन्तरदिने द्वादश्याः उपरि त्रयोदशी समागतासीत्। अतः उषोदयात् पूर्वं नन्दगोपः नदीम् अवतीर्णः। सः राक्षसानां सञ्चारकालः आसीत् । देवसेवकः राक्षसः नन्दगोपं वरुणस्य समीपम् अनयत्। गोपालकुलसञ्जाताः सर्वे सव्याकुलाः 'नन्दगोपः स्नानाय गतः न पुनरायातः' इति विषयं बलरामकृष्णाभ्यां निवेदयन् । सर्वज्ञः श्रीकृष्णः अभयं दत्वा पितुः, आनयनाय प्रस्थितः। वरुणलोकं समायान्तं श्रीकृष्णं स्वयं वरुणदेवः अभिवाद्य तत्सेवकेन कृतः अपराधः क्षन्तव्यः इति प्रार्थयामास । श्रीकृष्णः वरुणम् आशीर्वाद्य पित्रा सह गोकुलं समागच्छत् । वरुणलोकस्य वैभवं तत्र श्रीकृष्णाय प्रदत्त भव्यस्वागतं तद्रमणीयतां तल्लोकवासिनां कृष्णभक्तिं गोपालकेभ्यः नन्दगोप अवर्णयत्। एतद्विज्ञाय गोपालकुलनाः कृष्णं परमार्थतः द्रष्टुम् ऐच्छन्। सर्वेषां गोपालकानां मनोवाञ्छां विज्ञाय श्रीकृष्णः तान् यमुनानद्यां ब्रह्मकुण्डे स्नात्वा आगन्तुम् अकथयत् । एवं प्रकारेण यदा ते सर्वे स्नात्वा बहिरागताः तदा वैकुण्ठस्य दर्शनं प्राप्तवन्तः, धन्यास्ते श्रीकृष्णं भूयो भूयः संस्तुवन्। पवित्रं दिनमिदं तद्दिनात् वैकुण्ठ एकादशी इति लोके सप्रसिद्धम् अभवत्।
इयं कथा श्री. के.जि. महेशवर्यः कदाचित् सप्तगिरिपत्रिकायाम् अलिखत्। तमेवात्राहं संस्थापितवान् पाठकानां कृते।
#Vaikuntha #vaikunthaekadashi #ekadashi #kgmahesh #saptagiri #drrahul