सा भारतीयनारीशिक्षाक्षेत्रे महत्सहभागम् अयच्छत्।
१८३१ तमे वर्षे सावित्री महाराष्ट्रस्य नायगाँव-आख्ये ग्रामे अजायत।
तस्य पिता खण्डोजी, माता च लक्ष्मीवाई आस्ताम्।
यदा सा नववर्षीया तदा तस्याः विवाहः ज्योतिबाफुलेमहोदयेन सह सञ्जाता।
तस्याः पतिः समाजसंस्कारकः आसीत्, अतः सा पत्युः गृहे शिक्षाम् अवाप्तवती।
अतः सप्तदशवयसि सा सावित्री, कन्यानां शिक्षायै प्रदेशस्य प्रथमं विद्यालयं प्रारब्धवती।
ततश्च समाजे अस्पृश्यत्वात् तिरस्कृताणां बालिकानां कृते अपि विद्यालयं स्थापितवती।
अद्यत्वे वयं नारीवादमाश्रित्य बहुन् वादान् कुर्मः परन्तु सा नारीणां कृते यथा आन्दोलनं तथा तु जगति विरलमेव।
#DrRahul #drrahul
अद्य वयं नारीवादविषये बहु वदामः, परन्तु सावित्रीबाईफुले महोदया तु वादेन न, आचरणेनैव नारीमुक्तेः मार्गं प्रशस्तं कृतवती। तस्याः जीवनं अस्मान् प्रेरयति यत् वास्तविकं परिवर्तनं कर्मणा एव साध्यते।