गृहे यदा दारिद्रता दृश्यते तदा तद्दुरीकरणाय जनाः प्रयतन्ते। सुखेषु स्थित्वा विद्याग्रहणं न भवति। विद्या नाम इदृशी एव, सा भवतः त्यागमिच्छति। त्यागे मतिः भवतु विद्यायां चासक्तिः।
सिद्धायां तु विद्यायां सुखं स्वयमागमिष्यति, परन्तु सुखे आगते विद्या दुर्लभा।
#DrRahul #drrahul #dailysloka #sloka #विद्या #विद्यार्थी #सुखम् #sanskriti #happiness #knowledge #rule #subhashitam
