यत्कर्तुं चिन्तयति भवान् परन्तु समाजभिया लोकभिया नारब्धवान् तत् आरभ्यताम्। जनैः न किमपि उच्यते, वयमेवाधिकं चिन्तयामः। उच्यते चेदपि स्वकर्मणि विश्वासः अस्ति चेत् अवश्यं तत्कार्यं कुर्यात् निर्भयेन।
आरब्धवन्तं प्रतीदमेव वक्तव्यं यत् - यत् आरब्धं तत्समापयतु। विघ्नाः सततं तिष्ठन्ति, परन्तु अस्माभिः कार्यं न स्थगनीयम्।
#DrRahul #drrahul #dailysloka #sloka #उत्तमाः #मध्यमाः #अधमाः #गुणाः #कार्यम् #साफल्यम् #विद्या #sanskriti #quality #good #service #knowledge #rule #subhashitam
