व्याघ्रः सेवति काननं सुगहनं सिंहो गुहां सेवते,
हंसः सेवति पद्मिनीं कुसुमितां गृध्रः श्मशानस्थलीम्।
साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनं
या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते॥
श्लोकार्थः- व्याघ्रः कानने तिष्ठति, अतः स सदा सुगहनं काननं सेवते। सिंहो गुहावास्यस्ति, अतः तेन गुहायाः सेवा क्रियते। हंसः पद्मप्रस्फुटितायां पुष्करिण्यां विचरति, अतः तादृशं स्थानं तस्मै रोचते। गृध्रः श्मशानस्थलीमुपवसति, अतः तादृशं स्थलमेव स वाञ्छति। एवं कश्चन साधुजनः सदा साधुसङ्गतिमेवेच्छति, दुष्टश्चासत्सङ्गतिमिच्छति। अर्थात् यस्य या प्रकृतिर्वर्तते तस्य परिवर्तनं कर्तुं न कोऽपि क्षमो भवति।
सारांशः- श्लोकोऽयं संसारेऽस्मिन् स्थितानां जीवानां प्रकृतिं वक्ति। सर्वे जीवाः स्वप्रकृत्यनुसारमेवाचरणं विदधति। तदनुसारं स्वस्थानञ्चान्वेषति। यथा- व्याघ्रः जन्मतः अरण्ये तिष्ठति, हंसश्च पुष्करिण्याम्। यदि व्याघ्राय पुष्करिणी, हंसाय च काननं दीयते, तर्हि किं तौ तत्र स्थातुं शक्यौ? नैव। यतो हि व्याघ्रस्य योग्यस्थलमरण्यम्, हंसस्य च पुष्करिणी। अतः यस्य यद्योग्यस्थलं तेन तत्रैव स्थीयते। तथैव कश्चन उत्तमो जनः दुष्टेन समं , एवञ्च कश्चन दुष्टः साधुना समं स्थातुमसमर्थो भवति। सकलजीवाः स्वप्रकृत्या बद्धाः। सा च प्रकृतिः स्वभावजनिता अस्ति, तस्याः दूरीकरणमसम्भवम्।
इत्थमेव लिख प्रतिदिनम्।
कुत्रत्यः अयं श्लोकः।
प्रत्यहं लेखितुमवसरो न लभ्यते, तथापि तवानुग्रहेण चोदितोऽहं प्रयासं कुर्वे।