लक्षान्तरेऽर्कश्च जलेषु पद्मम्।
इन्दुर्द्विलक्षं कुमुदस्य बन्धुः
यो यस्य मित्रं नहि तस्य दूरम्।।
भावार्थः - श्लोकेऽस्मिन् मित्रतायाः महत्त्वं वर्णितमस्ति । पर्वते स्थिताः मयूराः आकाशे स्थितानां मेघानां मित्राणि भवन्ति अर्थात् मेघं दृष्ट्वा मयूराः नृत्यन्ति । तथैव लक्षकोटिदूरे स्थितः सूर्यः कमलस्य मित्रम् अर्थात् उदितः सूर्यः कमलस्य प्रस्फूटनं करोति । एवमेव दूरस्थितः सन् चन्द्रः प्रकाशेन कुमुदं विकासयति अर्थात् सूर्य-चन्द्रौ दूरं स्थित्वा अपि पद्म-कुमुदयोः प्रस्फूटनं कुर्वाते।
अतः ज्ञायते यत् प्रकृतमित्रस्य कृते दूरत्वं कदापि बाधा न भवति। सन्मित्रत्वं हृदयसम्बन्धस्थं भवति इत्यर्थः।