🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    कुमुदावगुण्ठनम् (गद्यकाव्यम्)

    अर्कज्योतिचक्रवर्ती Public
    २/१४/२०२६, २:३२:४८ अ (2/14/2026, 2:32:48 PM)
    श्रीः

    अस्ति खलु त्रिभुवनप्रसवभूमिरिव विबुधजनहृदयानन्दिनी सकलकलाकलापकेलिगृहं गन्धर्वगीतस्मरणचतुरतरङ्गिणिकूजितमुखरा विद्याधरमिथुनसञ्चरणपवित्रीकृतधूलिपटला उज्जयिनी नाम नगरी यस्यां किल अनतिक्रान्तगगनवेदवर्षदेशीयोऽपि जरठमुनिजनसमुचिततपोविशेषविशुद्धान्तःकरणः सकलशास्त्रपारदृश्वा धर्मव्रतो नाम महर्षिः प्रतिवसति स्म॥

    तस्य च कुमुदिनीव शशाङ्कस्य कमलिनीव दिनकरस्य अनुरूपगुणशालिनी कुलक्रमायाता विलासिनीति नामधेया धर्मपत्नी बभूव यया सह निवसतः तस्य बाहुशशिसंवत्सराः समतीताः आसन् या च सततमभ्याशवर्तिनी कूलमुद्रुजन्तीव स्रोतस्विनी तटम् अज्ञातेनैव संस्कारविशेषेण भर्तुः स्वभावम् अहरहः परिष्कुर्वाणा निगूढचारिणीव तस्थौ॥

    किञ्च यथा हि कश्चित् जडमतिः श्रोत्रियः कण्ठस्थीकृतमपि ग्रन्थमर्थावबोधशून्यतया केवलं पुनरुक्त्या अनादरेण परावर्तयति तथैव स मुनिः करतलधृतपुरातनतालपत्रपाण्डुलिपिमिव सुपरिचितमपि तस्याः लावण्यमतिशयितपरिचयावज्ञया नापूर्वमिव पश्यन् रसानभिज्ञ इव तदालोकनकुतूहलशून्यमानसः समभवत्॥

    तद्यथा स मुनिः अनवरतस्वाध्यायजडीकृतमतिः यथा पदक्रमजटादीन् वेदमन्त्रान् केवलं पाठमात्रेण जानाति न तु तदर्थरसास्वादनेन तथैव तस्याः प्रेयस्याः शरीरधर्मानपि केवलं बहिरङ्गतया बुबोध यत्र खलु बाल्यभावसुलभचापलस्खलनजनितो वामश्रवणपालिमूलवर्ती पाषाणदेहलीजन्मा व्रणकिणविशेषः, परिमिताक्षरच्छन्दःपादा इव विरलतां गता दन्तपङ्क्तयः, हविराहुतिसम्भार इव च केशपाशगुरुत्वमित्येतानि सर्वणि वस्तुनि तेन सुपरिचितान्यपि विस्मयकुतूहलवर्जितानि यन्त्रवदेव ज्ञातानि आसन्॥

    अथ कदाचित् अभिनववधूदन्तपत्रकान्तिकारिणि परिणतबिम्बफलाकारताम्ररुचि शशाङ्कमण्डले समुद्यति, प्रवृत्ते च मत्तकाशिनीकाञ्चीरवमुखरे शारदामौत्सवे, उज्जयिनीवासिभ्यः सकलकुलीनजनेभ्यः यक्षराजस्य मणिभद्रस्य दूतात् उद्यानयात्रा-निमन्त्रणम् आजगाम॥

    यत्र किल मेघदूताभिधाने गगनमणिमरीचिमञ्जरीपिशङ्गितदिव्यकुसुमस्तबकधारिपादपे प्रमदावने, लक्षा-चित्रपट्ट-विरचितैः विचित्ररूपैः कृत्रिम-मुखपटकैः पिहितनिजवदनैः, अन्तर्हितानामगोत्रभेदैः, अपरिचितैरिव सर्वैः नागरिकैः एकस्यां रजन्यां विगलितनिजपरिचयैः अज्ञातसाम्राज्ये विहरद्भिः मदोन्मत्तैः भवितव्यमिति॥

    अथ भुजग इव कञ्चुकं जीर्णमभिजात्यकुलाभिमानम् उत्सृज्य, अपगतसकलपूर्वेतिहाससंस्काराः, अननुभूतपूर्वपरिचया इव परस्परं मिलन्तः पौरजनाः यस्मिन् महोत्सवे विहरन्ति, तस्य शारदोत्सवस्य ताम्रपर्णिकायां लिखितम् आमन्त्रणं वाचयतः धर्मव्रतस्य “गम्यतामार्यपुत्रेण” इति वदन्तीं प्रियां प्रति “नहि, आवामुभावपि गमिष्यावः” इति ब्रुवाणस्य सत्यमपि वचनं तदन्तर्निगूढम् एकाकिगमनमनोरथं किञ्चित्स्खलितगद्गदस्वरेण कथयामास॥

    अत्रान्तरे तया निभृतं रत्नप्रभाभिधानया निपुणवणिक्पुरन्ध्र्या कारितः, तप्तकार्तस्वरघटितचम्पकमुकुलमालिकाविराजमानशिरोभागः, शरच्चन्द्रचन्द्रिकातन्तुभिरिव वयितेन अतिस्वच्छधवलदुकूलपटान्तेन कृततिरोधानवदनचन्द्रमण्डलः, त्रिभुवनक्षोभकारिण्याः मेनकाया इव, सुरलोकनिवासिन्याः रम्भाया इव, कमप्यपूर्वम् अप्सरोवेषः परिधृतः॥

    येन च सा, क्षालित इव मुनिपत्नीभावे, विस्मृत इव मानुषधर्मे, विलीनेव पार्थिवशरीरच्छायायाम्, सकललावण्यपुञ्जीभूता गन्धर्वदत्तेव नूतना काचित् दिव्याङ्गना समदृश्यत॥

    अथ विन्ध्याचलशिखरकन्दरासु अस्तं गच्छति दिनकरबिम्बे, गन्धर्ववेषरचनाकुलं भर्तारम् उपगम्य विलासिनी, कपोलतललुठितश्रवणपाशं यथा स्यात्तथा शङ्खप्रदेशे विन्यस्ततर्जनी “आर्यपुत्र! पुनरपि वज्रसूचीवेधतीव्रया शिरोवेदनया भिद्यत इव मे ललाटफलकम्” इति सव्याजं जगाद॥

    तदाकर्ण्य सत्वरमुपसृत्य “अहो कष्टम्” इति ब्रुवाणेन, चिकित्सकेनेव निजव्यापारकुशलेन, तुषारशिशिरेण शुष्ककरतलेन तस्याः ललाटं स्पृशता भर्त्रा यदा तस्याः मुखं निरीक्षितं, तदा सापि तस्य वदनपुण्डरीके न केवलं विषादच्छायां, अपि तु गुरुभारनिक्षेपसुखलवसदृशं कञ्चित् निगूढं परितोषमपि ग्रन्थार्थमिव वाचयन्ती ददर्श॥

    ततश्च चिरकालाभ्यस्तगान्धर्वरागस्वरविन्यास इव, सुप्रयुक्तनाट्यसन्धिबन्ध इव च, तयोः “तव पीडामवगणय्य न यास्यामि” “मैवम्, अवश्यं गन्तव्यमार्यपुत्रेण” इति यः कश्चित् कृत्रिमः कलहलापः प्रावर्तत, तदन्ते “अहं शुण्ठीमरिचक्वाथपानमोहितसंज्ञा प्रसुप्ता स्थास्यामि, भवान् निश्शङ्कं गच्छतु” इति तया विसर्जितः स मुनिः, अनर्गलस्वातन्त्र्यरसास्वादप्रमुदितमनाः “तथैव अस्तु” इत्युक्त्वा तस्मात् कक्षात् निरगात्॥

    अथ कविप्रणीतकाव्यबन्धस्येव मधुरसमाप्तिसूचकं मन्दमन्दपदविन्यासमनुगच्छन्तं द्वार-कपाट-पिधान-ध्वनिं शृण्वत्याः तस्याः कर्णपथमवतीर्णे सति, तत्क्षणमेव सङ्कल्पमात्रयोनिः सा शिरोवेदना घनपटलमिव शरद्वायुना दूरे निरस्ता बभूव॥

    ततश्च सा उत्थाय, मलयजरसपरिमललोभिनिलीनभ्रमरकुलझङ्कृतकाष्ठमञ्जूषां समुद्घाट्य, नलिनीदलसम्पुटशायितं तं दिव्यमप्सरोवेषम् आदाय, प्रसरति प्रदोषतिमिरनिकरे स्वात्मानं मण्डयामास॥

    तस्मिंश्च रजनिमुखे मेघदूताभिधानं तत् प्रमदावनं पुनर्निर्मितमिव मायिकं जगदशोभत, यत्र अशोकपादपशाखावलम्बिनः अभ्रककन्दुकाः बन्दिग्राहगृहीताः लघुचन्द्रमस इव रेजुः, मन्दं प्रसरन्त्यश्च कृष्णागुरुधूमलेखानद्यः दिगन्तराणि प्लावयामासुः, कुतश्चित् आगच्छन् अनिर्देश्यो गान्धर्वध्वनिश्च श्रवणसुभगः प्रावर्तत॥

    यत्र च मिथ्याकल्पितवेषान्तरितनिजस्वरूपाः, रजनिचरवेषधारिणोऽपि सुरसुन्दरीभिः सह सलीलं विहरन्तः, भिक्षुकवेषविडम्बितनरपालाश्च राजवेषधारिभ्यः कल्पितभिक्षुकेभ्यः आसवचषकं गृह्णन्तः जनाः विपर्यस्तसृष्टिक्रमा इव व्यराजन्त॥

    अथ सा पाटलकुसुमस्तबकनिरन्तरितगगनतलेन सन्ध्यारागलोहितेन, गुम्फितरक्तपुष्पसुरङ्गामार्गेणेव दक्षिणद्वारेण प्रविष्टा, कुट्टितरजतचषकगतं, कल्पितमधुरिमातिशयमपि तुषारशिशिरस्पर्शं सोमरसम् आस्वाद्य, सद्य एव अन्तःपुरसंचारोचितं मन्थरभावं विजहौ॥

    ततश्च नृत्यमृदङ्गध्वनिगम्भीरे महापद्ममण्डपमध्यभागे, यः पुरा निजशरीरं केवलं प्रज्ञासारथेः रथमात्रमिति मन्यमानः, शास्त्रनियन्त्रितपदविन्यासः, गम्भीरधैर्यसागर इव आसीत्, तमेव अद्य विगलितनिजनामाभिधानभारं, चिरनिरुद्धकारागृहान्मुक्तमिव, अनामिकस्वातन्त्र्यसुरामत्तैः अनर्गलचेष्टाविशेषैः नृत्यन्तं निजभर्तारं ददर्श॥

    यत्र च काचित् किन्नरीमुखपटेन पिहितवदना, अनवरुद्धकामकलाप्रगल्भा काचित् रमणी तस्य स्कन्धपीठे बाहुवल्लरीं निधाय तं गाढम् उपगूहति स्म, तस्याश्च तनुमध्यदेशादधस्तात्, रशनाकलापमुखरे, चक्रवाकमिथुनकठिने, गुरुनितम्बबिम्बे सविलासम् अर्पिताङ्गुलिकिसलयस्य भर्तुः पाणिपल्लवम् आलोक्य सा चित्रलिखितेव तस्थौ॥

    अथ सा तं किन्नरीकण्ठग्रहाद् विरतम्, अनन्तरमेव काञ्चित् पन्नगकन्यावेषधारिणीं कमपि कामिनीम् अनुसरन्तं ददर्श। यदा च तेन तस्याः करकमलस्य मणिबन्धादारभ्य कूर्परपर्यन्तं, मन्दं मन्दं प्रसरता, रोमाञ्चकञ्चुककारिणा, अङ्गुलीव्यापारेण यः स्पर्शसुखविशेषोऽनुभूतः, स तस्याः सपत्नीभूतायाः विलासिन्याः स्वगात्रे नखाङ्कपात इव तीव्रो बभूव॥

    पुनश्च यदा सः, अपरस्याः कस्याश्चित् युवत्याः पीतशेषं सुरापात्रम् आदाय, तस्याः ओष्ठलाक्षारागरञ्जिते प्रदेशे सरागं निजदशनच्छदम् अर्पयित्वा पपौ, तदा सा तद् सोढुमशक्नुवती, मन्दाकिनीप्रवाह इव तरलस्वच्छेन मुखावरणपटलेन आवृता, कम्पितहेमचम्पककुड्मलकर्णपूरा, सरभसमुपसृत्य तस्य बाहुमूलम् अस्पृशत्॥

    ततश्च “का इयम्?” इति कौतुकाद् परावृत्तेन तेन गन्धर्वमुखपटच्छिद्रान्तरालनिर्गतेन, अननुभूतपूर्वेण, अपरिचितनवमणिरत्नपरीक्षकेणेव, कामक्षुधाकलुषितेन चक्षुषा यदा सा आपादमस्तकं निरीक्षिता, तदा सः तामर्धोक्तवचनामेव नागकन्यां तृणमिव परित्यज्य, विलासिन्यामेव दत्तदृष्टिः तस्थौ॥

    अथ वादनकौशलशून्येन अपि तेन कण्ठलम्बितया वीणया मृदुघट्टितवामोरुस्तम्भा सा, पृष्ठवंशमूलादारभ्य कटितटपर्यन्तं प्रसरता, चिरपरिचितमार्गगामिना इव न, अपि तु नवीनद्वीपमिव अन्विष्यता, कुतूहलगर्भस्पर्शेन कम्पमानम्, अङ्गुलिकिसलयं यदा अन्वभवत् तदा तस्य स्पर्शस्य अपूर्वतया आत्मानं पुनर्नवीकृतामिव अमन्यत॥

    किञ्च दुकूलपट्टप्रान्तग्रीवासन्धिमध्यप्रविष्टस्य, तन्मुखमारुतस्य स्पर्शेन, "अहो मदीयः पतिः ईदृक् रतितन्त्रनिपुणः आसीत्" इति जानन्ती, "स्वपत्नीं विहाय अन्यत्रैव अस्य कौशलं प्रगल्भते" इति, सौन्दर्यसन्नद्धेन केनापि शोकेन अन्तः भिद्यमानापि तूष्णीं तस्थौ॥

    ततश्च रजनीमध्ययामे, यदा सः तस्याः ग्रीवामूलमुपसृत्य, अननुभूतपूर्ववर्णविन्यासरमणीयम्, आत्मनिवेदनगर्भं, भक्तिरसनिर्भरं किमपि पद्यं पपाठ, तदा तस्य ताम् अपूर्वां चाटुवचनरचनामाकर्ण्य, सा विलासिनीरूपेण रोदनमकुर्वाणा, अप्सरोवेषस्वीकृतधर्मेण, परकीयानायिकां विडम्बयन्ती "एवमस्तु" इति प्रत्युवाच॥

    अथ तौ दम्पती, अपरिचितकामुकभावम् आश्रित्य, कुसुमितमल्लिकावितानतिरस्कृतचन्द्रकरप्रवेशं किमपि निभृतलताकुञ्जं प्रविश्य, तत्र विरचितपुष्पशयने यथेच्छं विहरत स्म। तत्र च तेन विरचितं तं कामसूत्ररहस्योद्घाटनक्षमम्, अचिन्तितपूर्वं, नखदन्तक्षतवैचित्र्यचित्रितं सुरतविलासं पश्यन्त्याः तस्याः मनसि, "कष्टं भोः! द्वादशवर्षाणि यावत् अयम् ईदृशं रतिरसचमत्कारं दुर्भिक्षकाले लुब्धक इव सुवर्णराशिं निगूढवान्" इति, सुखस्थाने दारुणः शोक एव उदपादि॥

    ततश्च मुखपटापसारणशङ्खध्वनेः प्रागेव सा, मृगीव व्याधपाशात्, तस्मात् उद्यानात् निर्गत्य, प्रदीपमालाप्रकाशमानराजपथम् अतीत्य, निजगृहं प्रविश्य, तं दिव्यवेषं चन्दनमञ्जूषायां निक्षिप्य, धौताञ्जननेत्रा, सामान्यकार्पासशय्यायां निषण्णा, मेघदूताभिधानं काव्यम्, यत् इदानीं न केवलं काव्यमपितु भविष्यद्वृत्तान्तसूचकमिव प्रतिभाति, तत् वाचयन्ती तस्थौ॥

    अत्रान्तरे चरमाचलशिखरचुम्बिनि तारकागणे, स धर्मव्रतः प्रत्यावृत्त्य, "कदाचित् सुप्तायाः तस्याः निद्राभङ्गो मा भूत्" इति शङ्कया, अतिमन्दम् अङ्गणे पादुकयोः मोचनध्वनिमकरोत्॥

    अथ सः रजनिविहारचिह्नभूतं, मल्लिकाकुसुमपरागधूसरम्, कृष्णागुरुधूमवासितदुकूलम्, आत्मनः शरीरं वहन् शयनकक्षं प्रविवेश। तं च "अये! जागर्ति भवती" इति कृतकविस्मयम् अभिनयन्तं, "गता मे शिरोवेदना, अधीतं च मया किञ्चित्, कथ्यतां कीदृशो बभूव उत्सवः" इति पृच्छन्ती विलासिनी शय्याप्रान्तभागम् अलञ्चकार॥

    ततः सः कथाख्यायिकाविरचनचतुर इव, सुचिन्तितपदविन्यासं, शनैः शनैः गन्धर्ववेषस्य नीविबन्धं स्रंसयन्, "देवि! त्वया विना उत्सवोऽपि मरुस्थलप्राय एव प्रतिभाति। केवलं द्वारदेशे लब्धवरप्रसादैः पुष्पदन्तवीरबाहुप्रमुखैः विद्वद्भिः सह शास्त्रगोष्ठयां स्थितस्य मम, 'मोक्षावस्थायाम् आत्मनः सुखदुःखादिगुणाः अनुवर्तन्ते न वा' इति विचारयतः कथञ्चिद् इयं त्रियामा व्यतीता" इति व्याजहार॥

    ततश्च किञ्चिद् सव्रीडमिव, सस्मितमिव च तां विलोक्य पुनरवोचत्—"परं श्रूयताम्, सोमदेवनामा कश्चित् तरुणकविः, निजवेषस्य जीर्णतया लज्जितः, रजनिमुखे एव मदीयं गन्धर्ववेषं याचित्वान्। मयापि तस्मै स दत्तः। श्रुतं च मया यत् तेन चपलमतिना, मदीयं वेषम् आस्थाय, तत्र उद्याने कोऽपि अनिर्वचनीयः शृङ्गारचेष्टाविलासः प्रकटीकृतः" इति॥

    अथ सः “अहो मौग्ध्यं तरुणजनस्य” इति वदन्, परमकारुणिक इव, कल्पितप्रश्रयमधुरं विहस्य तूष्णीं बभूव। विलासिनी तु, तीक्ष्णनासावंशं, परिपूर्णाधरपल्लवं, विशेषतश्च असत्यवचनरचनासमये ललाटपट्टे जायमानां सुचिराभ्यस्तां भ्रुकुटिरेखां च पश्यन्ती, यथा कोऽपि शास्त्रज्ञः पुनर्लिखितं पुरातनतालपत्रं, लुप्तप्रायस्य मूलपाठस्य दिदृक्षया, उपरि-लिखित-नवीन-वर्ण-पङ्क्तिं क्लेशेन वाचयति, तथैव भर्तुः वदनं पपाठ॥

    यद्यपि सा, सोमदेवस्य पत्न्याः सख्याः हंसावत्याः सकाशान्, “किं सत्यमेव सोमदेवः गन्धर्ववेषं धृतवान्” इति वृत्तान्तस्य सत्यासत्यतां ज्ञातुं शक्नोति स्म, तथापि “अस्तु, नाहं प्रक्ष्यामि, भ्रम एवास्तु मे शरणम्” इति मनसा निश्चित्य, “आर्यपुत्र! अधिरोहतु शय्याम्, अतीतकला वर्तते विभावरी” इत्युवाच॥

    ततश्च तेन निर्वापिते तैलप्रदीपे, द्वारि चिरं प्रतीक्षमाणः कश्चित् सहिष्णुरतिथिः इव सान्द्रान्धकारः तं कक्षं प्रविवेश। स च धर्मव्रतः, तस्याः पार्श्वे शयानः, निमेषमात्रेणैव, आत्मनः सुकृतदुष्कृतविचाररहितः, प्रशान्तहृदयः पुण्यकर्मा इव, दीर्घश्वासपरम्परामनुसरन्, गाढनिद्रासुखं सिषेवे॥

    अथ सा विलासिनी उन्निद्रनयना, शय्यातले लुठन्ती, "किं मदीयभर्तुः, किं वा तस्य तरुणकवेः, आहोस्वित् कस्यापि नामाभिधानरहितस्य अपरिचितस्य इमे पाणिपल्लवाः यैः मम गात्रं स्पृष्टम्" इति वितर्कयन्ती, "मुखपटेन न किञ्चित् तिरोहितम्, प्रत्युत सर्वमेव प्रकाशितम्, कृत्रिमवेषश्च न धर्मव्रतस्य स्वभावान्तरम् अजनयत्, अपितु तस्य निगूढसत्यस्वरूपस्य उच्छ्वसनमार्गं दत्तवान्" इति बुबोध॥

    ततश्च वामचक्षुषः पृष्ठभागे, चिरपरिचित-यन्त्रणा-निलये, अङ्गुलीं निधाय, तां पुरातनसुहृदमिव आहूतवती, सापि च वेदना स्वामिभक्ता परिचारिकेव तत्क्षणमेव विजृम्भिता बभूव॥

    बहिश्च क्षीणस्रोतस्विनी शिप्रा अश्रोतृक-कथा-कथन-व्यापृतेव मन्दं मन्दं प्रवहति स्म, अशोकतरवश्च कस्यापि अगोचर-व्यवहारस्य मूकसाक्षिणः इव तूष्णीं तस्थुः, दीपाश्च एकैकशः निर्वाणम् आप्नुवन्तः रजन्याः अन्धकारकुक्षौ निजं निजं सूक्ष्ममरणवृत्तान्तं रहस्यमिव निदधुः॥

    समाप्तम्
    Comment
    Views ५७.८ सह.
    Delete
    4 comments
    Profile pic
    अर्कज्योतिचक्रवर्तीPublic
    २/१४/२०२६, २:३९:५४ अ (2/14/2026, 2:39:54 PM)
    Hindi Translation (through Google Translate, since I don't know much of Hindi).


    कुमुदावगुण्ठनम् (कुमुद का घूंघट)
    एक गद्यकाव्य
    ॥ श्रीः ॥
    तीनों लोकों की जन्मभूमि के समान, विद्वानों के हृदयों को आनंद देने वाली और समस्त कलाओं का क्रीड़ा-गृह, उज्जयिनी नाम की एक नगरी थी। वह नगरी गंधर्वों के गीतों का स्मरण कराने वाली नदियों के कलकल स्वर से मुखरित थी और विद्याधर दंपतियों के विचरण से पवित्र हुई धूलि-कणों से युक्त थी। वहाँ 'धर्मव्रत' नाम के एक महर्षि रहते थे, जिनकी आयु आकाश की सीमाओं को पार करने वाली (अत्यधिक) थी, फिर भी कठिन तपस्या के कारण जिनका अंतःकरण अत्यंत शुद्ध था और जो समस्त शास्त्रों के ज्ञाता थे।
    जैसे चंद्रमा की कुमुदिनी और सूर्य की कमलिनी होती है, वैसे ही उन्हीं के अनुरूप गुणों वाली 'विलासिनी' नाम की उनकी कुलक्रमागत धर्मपत्नी थी। उनके साथ रहते हुए महर्षि के बारह वर्ष (बाहु-शशि-संवत्सर) व्यतीत हो गए थे। वह पत्नी, किनारे को तोड़ती हुई नदी के समान, सदा समीप रहते हुए भी किसी अज्ञात संस्कार विशेष से अपने पति के स्वभाव को प्रतिदिन परिष्कृत करती हुई, मानो किसी गुप्तचर की भाँति (चुपचाप) साथ रही।
    किंतु, जैसे कोई मतिहीन श्रोत्रिय (वेदाभ्यासी) कंठस्थ किए हुए ग्रंथ को भी अर्थ न समझने के कारण केवल पुनरावृत्ति और अनादर के साथ दोहराता है, वैसे ही वह मुनि, हथेली पर रखी पुरानी ताड़पत्र की पांडुलिपि के समान अत्यंत परिचित होने पर भी, उसके लावण्य को 'अत्यधिक परिचय' के कारण होने वाली अवज्ञा से देखते थे। वे उसे किसी अपूर्व (नयी) वस्तु की तरह नहीं देखते थे और रस से अनभिज्ञ होकर उसे देखने के कौतूहल से शून्य मन वाले हो गए थे।
    जैसे वह मुनि निरंतर स्वाध्याय से जड़ हुई बुद्धि के कारण पद, क्रम और जटा आदि वेदमंत्रों को केवल पाठ मात्र से जानते थे, उनके अर्थ और रस का स्वाद नहीं लेते थे, वैसे ही उन्होंने अपनी प्रियतमा के शारीरिक धर्मों को भी केवल बाहरी रूप में जाना था। जैसे—बचपन की चपलता में गिरने के कारण बाएं कान के जड़ के पास पत्थर की देहरी से लगा चोट का निशान, सीमित अक्षरों वाले छंद के चरणों की तरह विरल (दूर-दूर) हुए दांत, और हवि की आहुति की सामग्री के समान भारी केशपाश—ये सभी वस्तुएँ उनसे भली-भाँति परिचित होने पर भी विस्मय और कौतूहल से रहित थीं, जिन्हें वे किसी यंत्र की भाँति ही जानते थे।
    इसके बाद कभी, जब नई वधू के कान के आभूषण (दंतपत्र) जैसी कांति वाला और पके हुए बिम्बफल के समान तांबे जैसी लाल आभा वाला चंद्रमा उदित हुआ, और मतवाली स्त्रियों की करधनी के स्वर से मुखरित 'शारदोत्सव' प्रारंभ हुआ, तब उज्जयिनी के सभी कुलीन निवासियों को यक्षराज मणिभद्र के दूत से 'उद्यान-यात्रा' (गार्डन पार्टी/कार्निवल) का निमंत्रण प्राप्त हुआ।
    वहाँ 'मेघदूत' नाम के उस प्रमदावन (बगीचे) में, जहाँ वृक्षों पर सूर्य की किरणों से पीली हुई दिव्य पुष्प-मंजरियाँ लटकी थीं, सभी नागरिकों को लाख के रंग वाले रेशमी मुखौटों (मास्क) से अपने चेहरे छिपाकर, अपनी पहचान और कुल का भेद छिपाते हुए, अपरिचितों की भाँति एक रात अपनी असलियत भूलकर अज्ञात साम्राज्य में मदोन्मत्त होकर विहार करना था।
    तब, जैसे सांप अपनी केंचुली छोड़ देता है, वैसे ही अपने पुराने अभिजात कुल के अभिमान को त्यागकर और पूर्व के सभी संस्कारों को भुलाकर, नगरवासी एक-दूसरे से ऐसे मिल रहे थे जैसे पहले कभी न मिले हों। उस उत्सव के ताम्रपत्र पर लिखे निमंत्रण को पढ़ते हुए धर्मव्रत ने जब अपनी पत्नी से कहा—"नहीं, हम दोनों चलेंगे," तब उनकी सच्चाई में भी उनके मन की वह छिपी हुई इच्छा (अकेले जाने की इच्छा) उनकी लड़खड़ाती और गदगद आवाज़ में कहीं न कहीं प्रकट हो रही थी।
    इसी बीच, उस (विलासिनी) ने रत्नप्रभा नाम की एक चतुर व्यापारी की पत्नी के माध्यम से छुपकर एक वेश तैयार करवाया। वह वेश तपाये हुए सोने से बनी चंपक कलियों की माला से सुसज्जित था। शरतकालीन चंद्रमा की चांदनी के धागों से बुने हुए अत्यंत स्वच्छ सफेद रेशमी वस्त्र के छोर से उसने अपने मुखमंडल को ढका था। वह वेश तीनों लोकों को क्षुब्ध करने वाली मेनका या स्वर्ग की रंभा के समान किसी अपूर्व अप्सरा जैसा था।
    उस वेश में वह ऐसी लग रही थी मानो उसका 'मुनि-पत्नी' का भाव धुल गया हो, वह मनुष्य के धर्म को भूल गई हो और पार्थिव शरीर की छाया में विलीन होकर समस्त सौंदर्य की पुंज बनी गंधर्वदत्ता जैसी कोई नई दिव्याङ्गना हो।
    फिर, जब विंध्याचल की कंदराओं में सूर्य अस्त हो रहा था, तब गंधर्व का वेश बनाने में व्यस्त अपने पति के पास जाकर विलासिनी ने, अपने कपोलों पर झूलते हुए कुंडल के पास शंख प्रदेश (कनपटी) पर तर्जनी उंगली रखते हुए बहाने से कहा—"आर्यपुत्र! सुई की चुभन जैसी तीव्र सिर के दर्द से मेरा ललाट फटा जा रहा है।"
    यह सुनकर पति ने शीघ्रता से पास आकर "अहो कष्ट!" कहते हुए, अपने कार्य में कुशल चिकित्सक की भाँति, ओस जैसे शीतल सूखे हाथों से उसके ललाट को छुआ। तब जब उन्होंने उसके मुख को देखा, तो विलासिनी ने भी उनके मुख-कमल पर न केवल दुख की छाया देखी, बल्कि भारी बोझ उतर जाने पर मिलने वाले सुख के समान एक गुप्त संतोष भी देखा, जिसे उसने किसी ग्रंथ के अर्थ की तरह पढ़ लिया।
    इसके बाद, जैसे चिरकाल से अभ्यस्त किसी गंधर्व राग के सुर हों या किसी नाटक के सधे हुए संवाद, उनके बीच एक कृत्रिम झगड़ा हुआ—"मैं तुम्हारी पीड़ा की अनदेखी कर नहीं जाऊँगा," "नहीं, आर्यपुत्र को अवश्य जाना चाहिए।" अंत में उसने पति को यह कहकर विदा किया कि "मैं सोंठ और मिर्च का काढ़ा पीकर बेहोशी की नींद सो जाऊँगी, आप नि:शंक होकर जाइए।" मुनि, अनर्गल स्वतंत्रता के रस के स्वाद से प्रसन्न मन होकर "ठीक है" कहकर कमरे से बाहर निकल गए।
    जैसे किसी कवि द्वारा रचित काव्य का सुखद अंत हो, वैसे ही मंद-मंद पदचाप के बाद जब विलासिनी के कानों में द्वार बंद होने की आवाज़ आई, तो उसी क्षण केवल संकल्प से जन्मा वह सिरदर्द वैसे ही दूर हो गया जैसे शरतकाल की हवा बादलों के झुंड को उड़ा देती है।
    तब उसने उठकर, चंदन के रस की महक से लोभी भौरों के गुंजन वाली लकड़ी की संदूक खोली और उसमें कमल की पंखुड़ियों के बीच रखे उस दिव्य अप्सरा-वेश को निकाला। फैलते हुए संध्या के अंधकार में उसने स्वयं को सजाया।
    रात की शुरुआत में वह 'मेघदूत' नाम का बगीचा किसी जादुई दुनिया जैसा लग रहा था। वहाँ अशोक के वृक्षों पर लटके हुए अभ्रक के गोले बंदी बनाए गए छोटे चंद्रमाओं की तरह चमक रहे थे। धीरे-धीरे फैलती हुई कृष्णागुरु के धुएं की लकीरें दिशाओं को प्लावित कर रही थीं। कहीं से आता हुआ अवर्णनीय गंधर्व संगीत कानों को सुख दे रहा था।
    वहाँ लोग झूठे वेश में अपनी असलियत छिपाए हुए थे। राक्षस का वेश धारण करने वाले भी स्वर्ग की सुंदरियों के साथ लीला कर रहे थे। भिखारी बने हुए राजा, राजा बने हुए भिखारियों से मदिरा के प्याले ले रहे थे। पूरी सृष्टि का क्रम ही उलट गया था।
    वह (विलासिनी) लाल फूलों के गुच्छों से ढके आकाश वाले और गुलाबी आभा वाले दक्षिण द्वार से प्रवेश कर गई। उसने चांदी के प्याले में रखे अत्यंत मीठे और बर्फ जैसे ठंडे सोमरस का स्वाद लिया, जिससे उसके भीतर की वह अंतःपुर वाली मंदता (संकोच) तुरंत दूर हो गई।
    तभी, मृदंग की गंभीर ध्वनि के बीच महापद्म मंडप में उसने अपने पति को देखा। वह व्यक्ति, जो पहले अपने शरीर को केवल बुद्धि रूपी सारथी का रथ मात्र मानता था, जिसके कदम शास्त्रों द्वारा नियंत्रित थे और जो धैर्य के गंभीर सागर के समान था—आज वह अपने नाम और पद के बोझ को उतारकर, मानो जेल से छूटा हो, बिना नाम वाली 'स्वतंत्रता की सुरा' में मस्त होकर अनर्गल चेष्टाओं के साथ नाच रहा था।
    वहाँ एक स्त्री, जिसने किन्नरी का मुखौटा लगाया था और जो कामकला में अत्यंत प्रगल्भ थी, मुनि के कंधे पर अपनी बाहें डालकर उन्हें गले लगा रही थी। उसके कमर के नीचे, करधनी के स्वर से मुखरित और भारी नितंबों पर अपने पति की कोमल उंगलियों को विलासपूर्वक टिका हुआ देखकर वह (विलासिनी) चित्रलिखित सी (स्तब्ध) रह गई।
    फिर उसने देखा कि पति उस किन्नरी को छोड़कर एक नागकन्या का वेश धारण किए हुए युवती का पीछा कर रहे हैं। जब मुनि ने उस युवती की कलाई से लेकर कोहनी तक धीरे-धीरे अपनी उंगलियां फिराईं और रोमांच पैदा करने वाले उस स्पर्श का सुख लिया, तो वह सुख विलासिनी को अपनी सौत (सपत्नी) द्वारा अपने शरीर पर किए गए नख-प्रहार जैसा तीखा लगा।
    पुनः जब मुनि ने एक अन्य युवती का जूठा मदिरा-पात्र लिया और उसके होंठों की लाली से रंगे हुए स्थान पर अपने होंठ रखकर पिया, तो वह (विलासिनी) उसे सह न सकी। गंगा के प्रवाह के समान पारदर्शी महीन मुखौटे से ढकी हुई और कानों में हिलती हुई स्वर्ण-चंपक कलियों वाली वह शीघ्रता से आगे बढ़ी और उसने पति की बांह पकड़ ली।
    जब मुनि ने कौतूहल से मुड़कर देखा—"यह कौन है?"—तो गंधर्व मुखौटे के छेदों से निकलती हुई उनकी आँखों में एक ऐसी दृष्टि थी जो विलासिनी ने पहले कभी नहीं देखी थी। वह दृष्टि किसी नए रत्न के पारखी जैसी और काम की भूख से व्याकुल थी। उन्होंने उस नागकन्या को तुरंत तृण के समान छोड़ दिया और अपनी पूरी दृष्टि विलासिनी पर टिका दी।
    भले ही मुनि को वीणा बजाना नहीं आता था, फिर भी गले में लटकी वीणा से उसकी जांघों को धीरे से छूते हुए और उसकी रीढ़ से लेकर कमर तक उंगलियां फिराते हुए, जब वे उसे किसी नए द्वीप की खोज करने वाले के कौतूहल से छू रहे थे, तब विलासिनी को उस स्पर्श की नवीनता से ऐसा लगा मानो वह स्वयं फिर से नई (युवती) हो गई हो।
    रेशमी वस्त्र और गर्दन के बीच से आती हुई पति की सांसों के स्पर्श से उसने जाना—"अहो! मेरे पति रति-शास्त्र में इतने निपुण थे!" यह जानकर कि अपनी पत्नी को छोड़कर उनकी यह कुशलता कहीं और ही प्रकट होती है, वह सौंदर्य से उत्पन्न एक अजीब शोक से भीतर ही भीतर टूट गई, पर मौन रही।
    आधी रात के समय, जब मुनि ने उसकी गर्दन के पास आकर आत्मनिवेदन और भक्ति रस से भरा एक अपूर्व पद्य (कविता) पढ़ा, तो उन मधुर चाटुकारी वचनों को सुनकर विलासिनी ने (अपनी पहचान छिपाते हुए) रोने के बजाय एक परकीया नायिका की तरह व्यवहार करते हुए उत्तर दिया—"ऐसा ही हो।"
    फिर वे दोनों पति-पत्नी, अपरिचित प्रेमी-प्रेमिका बनकर, चांदनी को रोक देने वाले चमेली के कुंज में प्रवेश कर गए और वहां फूलों की शय्या पर इच्छापूर्वक विहार किया। वहां मुनि द्वारा किए गए कामसूत्र के रहस्यों को खोलने वाले, अचिन्तित और नख-दंत के निशानों से युक्त उस रति-विलास को देखकर उसके मन में यह विचार आया—"कितना कष्ट है! बारह वर्षों तक इन्होंने इस रति-रस के चमत्कार को वैसे ही छिपा कर रखा जैसे कोई लालची व्यक्ति अकाल के समय अपने सोने के भंडार को छिपाता है।" उसे सुख के स्थान पर गहरा शोक हुआ।
    सुबह मुखौटे हटाने की घोषणा (शंख ध्वनि) होने से पहले ही, वह किसी शिकारी के जाल से छूटी हिरणी की तरह उस उद्यान से निकल गई। दीपों से सजी सड़कों को पार कर वह घर पहुंची, उस दिव्य वेश को संदूक में छिपाया, आँखों का काजल धोया और एक साधारण सूती बिस्तर पर बैठकर 'मेघदूत' काव्य पढ़ने लगी—जो अब उसे केवल काव्य नहीं, बल्कि भविष्य की घटना बताने वाला लग रहा था।
    इसी बीच, जब तारे अस्त होने लगे थे, धर्मव्रत लौटे। "कहीं उसकी नींद न खुल जाए" इस डर से उन्होंने आंगन में बहुत धीरे से अपनी खड़ाऊं उतारी।
    वे रात के विहार के चिह्नों से युक्त, फूलों के पराग से धूसरित और धूप के धुएं से महकते वस्त्रों के साथ कमरे में आए। "अरे! आप जाग रही हैं?"—ऐसा झूठा आश्चर्य जताते हुए उन्होंने पूछा। विलासिनी ने कहा—"मेरा सिरदर्द ठीक हो गया और मैंने थोड़ा अध्ययन किया, बताइए उत्सव कैसा रहा?"
    तब वे किसी कहानी सुनाने वाले चतुर व्यक्ति की तरह, धीरे-धीरे अपने गंधर्व वेश की गांठें खोलते हुए बोले—"देवि! तुम्हारे बिना उत्सव मरुस्थल जैसा था। मैं तो बस द्वार पर विद्वानों के साथ शास्त्र चर्चा कर रहा था कि मोक्ष की अवस्था में आत्मा के गुण रहते हैं या नहीं। बस जैसे-तैसे यह रात कटी।"
    फिर थोड़ा लजाते और मुस्कुराते हुए बोले—"पर सुनो, सोमदेव नाम का एक युवा कवि अपने पुराने वेश के कारण लज्जित था, तो उसने शाम को ही मेरा गंधर्व वेश मांग लिया। मैंने उसे दे दिया। सुना है कि उस चंचल मति वाले ने मेरा वेश पहनकर उद्यान में कोई अजीब ही शृंगारिक लीलाएं की हैं।"
    "अहो! युवाओं की अज्ञानता!"—ऐसा कहकर वे बड़े दयालु और विनम्र बनकर चुप हो गए। विलासिनी उनकी तीखी नाक, उनके होंठ और विशेषकर झूठ बोलते समय माथे पर पड़ने वाली उस पुरानी परिचित शिकन (भ्रुकुटि) को देख रही थी। जैसे कोई विद्वान किसी पुरानी पांडुलिपि के ऊपर लिखे नए अक्षरों को हटाकर मूल पाठ पढ़ने की कोशिश करता है, वैसे ही उसने अपने पति का चेहरा पढ़ा।
    यद्यपि वह सोमदेव की पत्नी (अपनी सखी हंसावती) से इस बात की सच्चाई जान सकती थी, फिर भी उसने मन में निश्चय किया—"रहने दो, मैं नहीं पूछूंगी, यह भ्रम ही मेरा सहारा बना रहे।" उसने कहा—"आर्यपुत्र! अब सो जाइए, रात बीत रही है।"
    जब दीपक बुझा दिया गया, तो द्वार पर खड़े किसी धैर्यवान अतिथि की तरह घना अंधेरा कमरे में आ गया। धर्मव्रत, अपनी पत्नी के पास सोए हुए, क्षण भर में ही अपने अच्छे-बुरे कर्मों के विचार से मुक्त होकर, किसी पुण्यात्मा की तरह गहरी नींद में खो गए।
    किंतु विलासिनी की आँखें खुली थीं। वह बिस्तर पर करवटें बदलते हुए सोच रही थी—"क्या वे हाथ मेरे पति के थे, या उस युवा कवि के, या किसी बिना नाम वाले अपरिचित के, जिन्होंने मेरे शरीर को छुआ?" उसने महसूस किया कि "मुखौटे ने कुछ छिपाया नहीं, बल्कि सब कुछ प्रकट कर दिया। कृत्रिम वेश ने धर्मव्रत के स्वभाव को बदला नहीं, बल्कि उनके छिपे हुए असली स्वरूप को बाहर निकलने का रास्ता दे दिया।"
    तभी उसकी बाईं आँख के पीछे, उस पुराने दर्द के स्थान पर, उसने अपनी उंगली रखी और उसे किसी पुराने मित्र की तरह पुकारा। वह वेदना भी किसी स्वामिभक्त सेविका की तरह तुरंत जाग उठी।
    बाहर क्षीण जल वाली शिप्रा नदी किसी अनसुनी कहानी सुनाने की तरह धीरे-धीरे बह रही थी। अशोक के वृक्ष किसी गुप्त व्यवहार के मूक गवाह बनकर खड़े थे। और एक-एक कर बुझते हुए दीपक रात के अंधेरे की गोद में अपने-अपने सूक्ष्म अंत का वृत्तांत किसी रहस्य की तरह छिपा रहे थे।
    ॥ समाप्त ॥
    DislikeCommentDelete
    Profile pic
    आयुःPrivate
    २/१४/२०२६, ६:५८:०५ अ (2/14/2026, 6:58:05 PM)
    अत्युत्तम ।
    DislikeCommentDelete
    Profile pic
    सुमन्तमण्डलःPublic
    २/१५/२०२६, ९:५९:४६ पू (2/15/2026, 9:59:46 AM)
    शब्दानाञ्चयनं पदलालित्यञ्चातीव मनोहरं वर्तते। गद्यशैली प्रवाहमयी अस्ति। एतादृशाः साहित्यप्रयासाः संस्कृतजगतः कृते गौरवप्रदाः सन्ति। साधुवादः!
    DislikeCommentDelete
    Profile pic
    Prema ShreePublic
    २/२४/२०२६, ११:३९:३० अ (2/24/2026, 11:39:30 PM)
    लेखकाय धन्यवादः।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓