राजनेतारः उच्चैः मिथ्याभाषणं कुर्वन्ति तथापि वयं मौनेन श्रोष्यामः। असत्यवचनेन आकृष्टाः भवामः।
अधर्ममार्गगमनाय सदोत्सुकाः वयम्। वस्तुतः तत्सर्वं क्रियते यत् न कर्तव्यमस्माभिः।
यदि केचन जनाः अपि शिक्षिताः भवेयुः, तर्हि चित्रमिदं परिवर्तेत इति भावये। चिन्तयन्तु भवन्तः अस्मिन्विषये।
#dailysloka #sloka #धर्मः #सत्यम् #सभा #सुभाषितम्#subhashitam#Dharma #mahabharatam#truth#संस्कृतायनम् #samskritayanam #Sabha #saṃskṛtāyanam #সংস্কৃতায়নম্ #sloka365 #DrRahul #drrahul #DrRahulMaity
