वासयोग्यं स्थानं वेदमिति निश्चयः कथं स्यादिति चिन्तायामयं श्लोकः स्मर्यताम्। कदाचित्तु धनागमेऽप्ययं खेदः उत्पद्यतेैव यदि सम्मानो न स्यात्। क्वचित्त मित्राभावमि दुःखं दद्यात्। नैकानि कारणानि सन्ति कस्मिन्श्चिदपि देशे स्थातुम्, तेषु कश्चिदेकस्तु भवेदेव। विद्यागमः, धनागमः, सम्मानं, बान्धवाः इति यत्किमपि एकं कारणं भवति चेदपि स्थातुमर्हः सः देशः। परन्तु प्रतिजनं कारणं भिद्यते, यस्य यत्राग्रहः सः तत्कराणं पश्येत्। तेन कारणेन हीनश्चेदवश्यं सः देशः त्यक्तव्यः। यथा सम्मानेन विना अहं तु न वसामीति।
#dailysloka #sloka #देशः#सम्मानम् #वृत्तिः #सुभाषितम्#subhashitam#बान्धवाः #विद्यागमः #country #संस्कृतायनम् #samskritayanam #respect #saṃskṛtāyanam #সংস্কৃতায়নম্ #sloka365 #DrRahul #drrahul #DrRahulMaity
