🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    पिशाचबाधायाः उत्पन्नः विनोदः

    Chinmay Phadke Public
    ३/२२/२०२६, १२:३५:०९ अ (3/22/2026, 12:35:09 PM)
    नागपुरे बजाजनगरे अनिलपाण्डेमहोदयस्य गृहे घटिता एषा घटना। अनिलपाण्डेमहोदयः अस्ति ७५ वर्षीयः। तस्य ६७ वर्षीयः अनुजः रञ्जनपाण्डेमहोदयः मुम्बईनगर्यां कार्यरतः शल्यचिकित्सकः अस्ति। ४५ वर्षेभ्यः पूर्वमेव रञ्जनमहोदयेन नागपुरे एव सर्वकारीयात् वैद्यकीयमहाविद्यालयात् स्नातकोपाधिः प्राप्ता। 
    अनिलमहोदयस्य एतत् बजाजनगरस्थे गृहे त्रयः अट्टाः। उपरितने तृतीये अट्टे सञ्चारः विरलतया एव भवति। तत्र एकस्मिन् लघुप्रकोष्ठे बह्व्यः पुरातन्यः, निरुपयोगिन्यः सामग्र्यः स्थापिताः सन्ति। कादाचित्कतया एव सः प्रकोष्ठः उद्घाट्यते। 
    गते वर्षे अखिले गृहे वर्णलेपनकार्यं अभवत्। सर्वेषु प्रकोष्ठेषु सामग्र्यः अन्यत्र स्थापयित्वा, प्रकोष्ठं रिक्तीकृत्य तस्य वर्णलेपनम् आरब्धम्। अथ एकस्मिन् दिने रङ्गलेपकः गिरिधरमहोदयः एतस्मिन् विरलतया उद्घाट्यमाने प्रकोष्ठे प्राविशत्। धूलिकणैः आवृत्तं प्रकोष्ठं मार्जयित्वा, प्रकोष्ठं रिक्तीकुर्वतः तस्य दृष्टिः सहसैव एकस्मिन् कोणे स्थिते अस्थिपञ्जरे पतिता। अस्थिसञ्चे तस्मिन् एकः कपालः अपि दृष्टः। कस्यापि मनुष्यस्य एव अस्थिः इति परिलक्ष्य अतीव भयभीतः जातः सः। झटिति एव धावन् धावन् अधस्तने अट्टे अवतरितवान् सः। 
    भयग्रस्तस्य तस्य अखिलं मुखं डिसेम्बरमासस्य शैत्यकाले अपि स्वेदेन क्लिन्नम्, अङ्गं च कम्पमानम् आसीत्। रोदनप्रायावस्थायां, स्खलितवचसा सः अनिलमहोदयं पृष्टवान्, "उपरितने अट्टे अस्थिपञ्जरः कस्य अस्ति?" 
    अनिलमहोदयः तु सोफासने विश्रामावस्थायां उपविश्य दूरदर्शने प्रक्षेपिते क्रिकेटद्वन्द्वे तल्लीनम् आसीत्। यद्यपि तेन गिरिधरमहोदयस्य प्रश्नः श्रुतः, किन्तु तस्य भयोपेताः हावभावाः न दृग्गोचरीभूताः। अतः अनिलमहोदयः अतीव लीलया, स्थितिं सामान्याम् एव गणयन् उत्तरितवान्, "ओह, सः अस्थिपञ्जरः? सः तु मम अनुजस्य अस्ति"। एतस्य उत्तरस्य श्रवणमात्रेण गिरिधरमहोदयस्य तु चेतना एव अपाकृष्टा, "किम्? भवतः अनुजस्य अस्थयः?" इति उच्चैः वदन् झटिति सः भूमौ उपविष्टवान्, स्वललाटं हस्तेन ताडयन् भूमौ एव स्थितवान्। तस्य उच्चरवेण, विचित्रेण व्यवहारेण अनिलमहोदयस्य ध्यानं क्रिकेटद्वन्द्वात् विचलितः। आश्चर्यान्वितः अनिलमहोदयः तं पृष्टवान्, "त्वं स्वस्थः असि? किम् अनेन विकृतव्यवहारेण? का समस्या?" गिरिधरमहोदयः पृष्टवान्, "भवतः भ्रातुः अस्थिपञ्जरः भवान् गृहे एव स्थापितवान्, विसर्जनं न कृतवान्। एतादृशे गृहे कथं भवान् तिष्ठति? गृहे पिशाचबाधा न अनुभूयते वा? केऽपि अमानवीयाः प्रसङ्गाः नैव घटिताः वा?" 
    वस्तुतः एतादृशम् अशिष्टप्रश्नं श्रुत्वा अन्यः कोऽपि अवमाननम्, औद्धत्यं मत्वा क्रोधाविष्टः अभविष्यत्। किन्तु गिरिधरमहोदयस्य आर्ततां, मनस्थितिम् दृष्ट्वा अनिलमहोदयः अवगतवान् यत् का भ्रान्तधारणा अस्ति यस्मात् सः मूर्च्छितप्रायः जातः।

    अनिलमहोदयः दूरदर्शनं निर्वाप्य, चषके जलम् आनीय गिरिधरमहोदयाय दत्तवान्, तं सोफासने उपवेष्टुं च निवेदितवान्, उक्तवान् च, "कृपया मा बिभेहि। त्वं यथा चिन्तयसि तथा नास्ति। अहं सर्वं स्पष्टीकरोमि, तव भयम् अपि अपाकरोमि।" गिरिधरमहोदयः जलं पीत्वा, मनसि शैथिल्यं भावयन् श्रुतवान् अनिलमहोदयस्य विवरणम्। "मम अनुजः वैद्यः अस्ति। जीवितः, सुस्वस्थः सः मुम्बय्यां नानावटीरुग्णालये सुविख्यातः शल्यचिकित्सकः अस्ति। नागपुरे एव ४५ वर्षाणि पूर्वं सः वैद्यकीयशिक्षणं प्राप्नोत्। सर्वेभ्यः एव वैद्यकीयछात्रेभ्यः एकैकः अस्थिसञ्चः वितरितः अस्ति। त्वया यः दृष्टः, सः तदानीन्तने काले मम 'अनुजाय वितरितः अस्थिसञ्चः'। केनापि कारणेन सः अस्थिसञ्चः महाविद्यालयाय न प्रत्यार्पितः, न केभ्यश्चिदपि अन्येभ्यः हस्तान्तरितः। तस्मात् कालात् सः सञ्चः अस्मद्गृहे एव दुर्लक्षिते तस्मिन् कोणे तिष्ठति। त्वं चिन्तां मा कुरु। पिशाचबाधायाः लेषः अपि नास्ति अत्र। पूर्णतया अपायरहितः सः सञ्चः। तथापि अस्थिनां, विशेषतः कपालस्य दर्शनमात्रेण भयम् उत्पद्यते चेत् सः अस्थिसञ्चः अहम् अन्यत्र स्थापयामि, येन तव दृष्टिपथं न आगच्छेत् सः।" इति अनिलमहोदयः आश्वासितवान्।

    एतत् विवरणं श्रुत्वा न केवलं गिरिधरमहोदयस्य भयः अपगतः, तस्य मुखे स्मितः अपि आगतः। पिशाचादिषु विश्वासम् अपनीय, शूरः भूत्वा सः वर्णलेपनकार्यम् अनुवर्त्य सप्ताहत्रयं यावत् उत्तमरीत्या पूर्णतां नीतवान्। किन्तु भ्रान्तधारणया समुत्पन्नः प्रसङ्गोऽयं स्मारं स्मारं अधुनापि हासम् उत्पद्यते।
    Comment
    Views ४०.३ सह.
    Delete
    3 comments
    Profile pic
    Prema ShreePublic
    ३/२२/२०२६, ३:०६:५६ अ (3/22/2026, 3:06:56 PM)
    अनिलमहोदयस्य शान्तस्वभावः प्रशंसनीयः।
    DislikeCommentDelete
    1 replies
    Profile pic
    Chinmay PhadkePublic
    ३/२२/२०२६, ३:३२:१२ अ (3/22/2026, 3:32:12 PM)
    आं प्रेमाश्रीमहोदये। लेखं पठितुं धन्यवादाः। एषा वास्तविकी घटना, मम मातुलस्य गृहे घटिता। यद्यपि मया नामानि परिवर्तितानि पात्राणां, किन्तु मम मातुलः, मातुलानी च अतीव प्रशान्तचित्तसौ, शान्तस्वभाविनौ स्तः।
    DislikeCommentDelete
    Profile pic
    सुमन्तमण्डलःPublic
    ३/२२/२०२६, ४:१९:३५ अ (3/22/2026, 4:19:35 PM)
    अतीव सुन्दरः लेखः। भ्रान्तिनिवारणस्य एषः प्रसङ्गः केवलं हास्यं न जनयति, अपितु अस्मान् तार्किकचिन्तनार्थं प्रेरयति च। धन्यवादः!
    DislikeCommentDelete
    Profile pic
    Dr. Rahul MaityPublic
    ३/२३/२०२६, ९:३२:४४ अ (3/23/2026, 9:32:44 PM)
    हा हा हा हा
    हास्यरसपुर्णा कथेयम् मह्यम् अरोचत।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓