#बोधप्रदकथा #हृद्स्पर्शी-प्रसङ्गः #प्रेरणास्पदकथा #hearttouchingstory #SanskritStory #SanskritArticle
घनश्यामः ताहिलरामानी - परोपकारस्य परमं फलम्
घनश्याममहोदयस्य विषये
भारतपाकिस्तानविभाजनसमये नैकानां हिन्दुबान्धवानां भारतवर्षे स्थलान्तरणस्य बह्व्यः गाथाः अस्माभिः श्रुताः सन्ति। स्थलान्तरितेषु अनेकाः सामान्यजनाः आसन्, यैः बहवः कष्टाः सोढव्याः आपतिताः, महत् सम्पद् च त्यक्तव्या जाता। केचन धनिकाः आसन् ये पूर्वम् एव सम्भाव्यां दारुणां स्थितिम् अनुमीय विभाजनात् प्राक् एव भारतदिशि महतीं समस्यां विना स्थलान्तरणं कृतवन्तः। किन्तु तेषु धनाढ्येषु केचन जनाः एतादृशाः अपि आसन् ये निस्वार्थित्वेन अन्येषाम् अनेकानाम् अपरिचितानां सामान्यजनानां साहाय्यं कृतवन्तः, स्वस्य प्राणान् पणीकृत्य। तेषु एव एकः आसीत् घनश्यामः ताहिलरामानीमहोदयः, यश्च सुविख्यातस्य अभिनेतुः दलीपताहिलस्य पिता अस्ति। (दलीपताहिलस्य उपनाम ताहिलरामानी इति एव अस्ति, किन्तु सौकर्यार्थं तेन तत् संक्षिप्तं कृतम् अस्ति "ताहिलः" इति।)
उच्चविद्याविभूषितः सिन्धीभाषिकः हिन्दुजनः घनश्यामः ताहिलरामानीमहोदयः ब्रिटैनीये वायुदले (royal air force) वैमानिकत्वेन कार्यरतः आसीत्। स्वकर्तृत्वेन अर्जितायाः विद्यायाः, परिश्रमात् च सः, तस्य परिवारः आर्थिकदृष्ट्या सुसम्पन्नः आसीत्। इदानीन्तने पाकिस्ताने एव परिवारस्य निवासः। विभाजनात् अनन्तरं घनश्याममहोदयस्य पुरतः वृत्त्याः त्रयः विकल्पाः आसन् - ब्रिटैनीये वायुदले वैमानिकः, पाकिस्तानीये वायुदले, भारतीये वायुदले च। किन्तु प्रखरदेशाभिमानिनः तस्य इच्छा तु भारतीयवायुदले कर्मचारित्वस्य एव।
अन्ते च निर्णायकं दिनम् आसन्नम्। १९४७ वर्षे एकस्मिन् दिने १२ वादनात् अनन्तरं पाकिस्तानस्थानि सर्वाणि विमानपत्तनानि ब्रिटिशसर्वकारस्य अधिकारं त्यक्त्वा पाकसर्वकारस्य आधीन्ये भवेयुः इति घोषणा अभवत्। घनश्याममहोदयस्य पुरतः अधुना द्विधा समस्या, वृत्त्याः त्यागः, आप्तानां, परिजनानां च स्थलान्तरणम् अत्यल्पे एव समये। किन्तु तस्मिन् अवशिष्टे समये अपि तेन एका युक्तिः साधिता। सा युक्तिः न केवलं स्वस्य परिवारस्य, अपि तु अनेकानाम् अन्येषां परिवाराणां कृते अपि अतीव हितकारिणी, उपकारिणी च अभवत्।
निर्णायकः क्षणः
घनश्याममहोदयः परिवारजनान् तस्मिन् अल्पे अवशिष्टे समये सर्वाः आवश्यक्यः सामग्र्यः सज्जीकर्तुम् आदिष्टवान्। तद्दिने एकस्य वायुदलविमानस्य उड्डयनं कराचीतः निर्धारितम्, यत् तेन एव डापनीयम् आसीत्। भारतात् बहिर्गमनस्य सज्जतायां व्यस्तस्य ब्रिटिशसर्वकारस्य तु सैन्यदले महत् नियन्त्रणम् नासीत्। एतस्यैव लाभः संसाध्य एतत् विमानं भारतभूमौ नेतव्यं (न तु तस्य निर्धारिते स्थाने), विमाने परिवारजनान् च आरोप्य तान् अपि सुरक्षिततया भारते आनेतव्यम् इति कूटयोजनां सः चिन्तितवान्। कर्णाकर्णिकया तत्रत्याः अन्ये हिन्दुजनाः अपि ज्ञातवन्तः यत् एतत् विमानं भारतं गमिष्यति इति। शीघ्रातिशीघ्रं ते सर्वे अपि सज्जाः भूत्वा विमानम् आरूढवन्तः। आहत्य पञ्चाशत्प्रायाः आसन् सर्वे। तेषु सर्वाधिकाः पञ्जाबीयाः।
सर्वे विमानं तु आरूढवन्तः किन्तु विमानस्य उत्पतनाय (take off) कश्चन विलम्बः अभवत्। १२ वादनस्य सीमा आक्रान्ता। पाकिस्तानीयाः सैनिकाः तस्य विमानपत्तनस्य स्वाधीन्यम् अधिगतवन्तः। उड्डयितुं सिद्धं, उड्डयनपट्टिकायां चलत् विमानं स्थगयितुं, सर्वान् प्रवासिणः अवतरितुं ते आदिष्टवन्तः, विमानं प्रति, काॅक्पिटः उपरि गोलिकाप्रहारम् अपि कृतवन्तः। एतस्मात् विचलितः न भूत्वा वैमानिकः घनश्याममहोदयः इतोऽपि एकां शौर्यपूर्णां युक्तिं कृतवान्। शरणागत्याः अभिनयं कृत्वा सः रेडिओमाध्यमेन सैनिकान् आश्वासितवान् यत् विमानस्य अधः भूमिः मसृणा, पङ्कयुक्ता अस्ति, अतः विमानम् इतोऽपि अग्रे नीत्वा विपरितदिशि वलित्वा सः पूर्ववत् आनेष्यति इति। तस्मिन् वचसि विश्वसित्य पाकिस्तानीयाः गोलिकाप्रहारं स्थगितवन्तः। अतः घनश्याममहोदयः विमानम् अग्रे नीत्वा, तस्य गतिवर्धनं कृत्वा शीघ्रमेव आकाशे डापितवान्। एवं च पाकिस्तानीयान् वञ्चयित्वा, स्वस्य प्राणैः सह खेलित्वा, अपायावहायां स्थितौ अपि, विमानं डापयित्वा देहलीनगरे अवतारितवान्, स्वस्य परिवारेण सह अन्यान् अपि हिन्दुबान्धवान् सुरक्षितस्थाने आनीतवान्।
परोपकारस्य फलम्
गच्छता कालेन तस्य परिवारः लखनऊनगरे स्थायिकः जातः। घनश्याममहोदयः एकस्यां सर्वकारायायां कृषिविमाननसंस्थायां (Agro Aviation sector) वृत्तिं स्वीकृतवान्। विमानेन आनीताः सर्वे जनाः देहल्यां, पञ्जाबे च स्थितवन्तः, तैः साकं घनश्याममहोदयस्य कोऽपि सम्पर्कः नाभवत्। किन्तु कालान्तरेण १५ वा २० वर्षाणि अनन्तरम् एका विलक्षणा घटना घटिता। १९७० तमे दशके पञ्जाबे हरितक्रान्तिः चरमस्थाने आसीत्। विस्तृतेषु कृषिक्षेत्रेषु बीजसेचनं, भूम्याः उत्पादकतां वर्धयितुम् आवश्यकानाम् औषधानां सेचनं च महत्यां सङ्ख्यायां, महति प्रमाणे च भवति स्म। अथ एकदा घनश्याममहोदयस्य कृषिविमाननसंस्थायै एतस्य बीजसेचनस्य (crop spraying) दायित्वं दत्तम् आसीत्। तदर्थं घनश्याममहोदयः स्वयं हेलिकॉप्टरयानम् उड्डापयितुं पञ्जाबे गतवान्। हेलिकॉप्टरयानं भूम्याः समीपे आनीत्य बहुषु क्षेत्रु हेलिकॉप्टरतः एव बीजानां कृषिक्षेत्रेषु क्षेपणं प्राचलत्। तत्समये एकः स्थानिकः हेलिकॉप्टरयानम् उड्डापयन्तं घनश्याममहोदयं लक्षितवान्। तस्य मुखं परिचितम् अभासत। कानिचन क्षणानि अनन्तरं सः संस्मृतवान् यत् एषः सः एव महोदयः अस्ति यः १५-२० वर्षाणि पूर्वम् तं, तस्य परिवारम्, अन्यान् च जनान् सुरक्षिततया भारते साहसिकरीत्या आनीतवान्। झटिति सः तस्य आप्तमित्राणि च आहूय घनश्याममहोदयं गृहं निमन्त्रितवान्। ते सर्वे मित्राणि घनश्याममहोदयस्य विमानस्य एव यात्रिणः, तेषां यात्रिणां च वंशजाः आसन्, ये अधुना पञ्जाबे सुरक्षितं जीवनं यापयन्तः आसन्। ते सर्वे जनाः घनश्याममहोदयम् अभिज्ञातवन्तः। यद्यपि घनश्याममहोदयः सर्वान् स्पष्टतया न अभिज्ञातवान्, तथापि ते तस्य उपकारान् नैव विस्मृतवन्तः। पञ्जाबीयानाम् आदरातिथ्यं, भोजनं तु सर्वे जानन्ति एव। ते जनाः घनश्याममहोदयस्य भृशं स्वागतं कृतवन्तः। एषः प्रसङ्गः न केवलम् एकवारम् अभवत्, तदन्तरं यदा यदा घनश्याममहोदयस्य पञ्जाबयात्रा अभवत्, ते सर्वे जनाः, तेषां पुत्रपौत्राः च सर्वदा महोदयस्य स्वागते, आदरातिथ्ये रताः भवन्ति स्म। "घनश्याममहोदयस्य कारणात् एव भारते वयं नवजीवनं, सुरक्षितं जीवनयापनं कुर्मः स्म, एषः महोदयः देवतुल्यः" इति कृतज्ञताभावः तेषां मनसि, तेषां वंशजानां मनस्सु अनेकानि दशकानि अनन्तरम् अपि विराजते स्म।
एतेषां हृद्स्पर्शिणा व्यवहारेण तु घनश्याममहोदयस्य जीवनं कृतार्थं अभवत्। सः सर्वदा वदति स्म यत् निस्वार्थित्वेन कृतेन अस्य परोपकारस्य कारणात् यादृशः आदरः, कृतज्ञता, प्रीतिः, स्नेहः च तेन एतेभ्यः जनेभ्यः अर्जितः, तादृशः बान्धव्यः लौकिकजीवने कृतस्य धनार्जनस्य, आर्थिकसम्पदः तुलनया अपि मूल्यवान् अस्ति।