🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Chinmay Phadke Public
    ४/४/२०२६, ११:२५:२३ अ (4/4/2026, 11:25:23 PM)
    कथाशीर्षकः - भूखण्डविक्रेता
    कथाप्रकारः - मनोरञ्जकी, हास्यजनयित्री च

    एकस्मिन् सायङ्काले मम श्वशुरः तस्य एकं भूखण्डं दर्शयितुं मां नीतवान्। आवामुभौ कारयानेन गच्छन्तौ आस्ताम्। श्वशुरः कारयानं चालयन्, अहं पुरतस्थे वामतने आसन्दे उपविशन् आसम्। 

    सामान्यतः मुख्यमार्गेषु केषुचित् स्थानेषु केचन विक्रेतारः दृश्यन्ते, येषां लघ्वापणानि मार्गस्य वामपार्श्वे सन्ति, तेषु कोऽपि जनः विक्रेतव्यं वस्तु हस्ते गृह्णन्, यथा वस्तु सर्वेषां दृष्टिपथे गच्छेत् तथा दर्शयन्, ग्राहकान् आकर्षितुं वस्तुनः नाम उच्चैः घोषयन् दृश्यते। स्ट्राबेरीफलानि, कलिङ्गफलानि, काचकक्षालककर्गजान्, उद्घर्षणापवारकद्रव्यं (scratch removal liquid), क्रीडनकानि विक्रीणतां जनानां दृश्यं साधारणतया दृश्यते।

    किन्तु श्वशुरेण सह कारप्रयाणे अविरलः प्रसङ्गः अनुभूतः। श्वशुरवर्यस्य भूखण्डः नागपूरात् किञ्चित् बहिरस्थे शङ्करपुरम् इत्याख्ये ग्रामे अस्ति । ग्रामः अधुना पूर्णतया विकसितः नास्ति। लोकवसतिः अत्यल्पा, ग्रामपञ्चायतस्य कार्यालयं, जनपदपरिषदः शाला, रिक्तानां भूखण्डानाम् आधिक्यं, विविधानां भवननिर्मातृसंस्थानां, स्थावरसम्पदः अभिकर्तॄणां च विज्ञापनफलकाः इति तत्रत्यः सामान्यः दृश्यः। (किन्तु अहो आश्चर्यं, तत्रत्याः मार्गाः अतीव उत्तमाः, स्थपुटितत्वरहिताश्च। वस्तुतः नागपुरप्रशासनेन अखिले नगरे, समीपस्थेषु ग्रामेषु च संरचनायां महान्तः सुधाराः कृताः सन्ति। अस्तु एषः भिन्नः विषयः।) आवाम् एकस्मिन् मार्गे प्रविष्टवतौ, यत्र उभयतः रिक्ताः भूखण्डाः। अस्मदीयं भूखण्डम् अन्विष्यतोः आवयोः कारयानस्य गतिः मन्दायमाना जाता। सहसैव एकः जनः समीपे आगतः। सः विक्रयिकः इति तु दर्शनमात्रेण ज्ञातम्। तस्य हस्ते कानि अपि फलानि, वस्तूनि तु न, किन्तु एका पुस्तिका, लेखनी च आसीत्। सः आवां पृष्टवान्, "महोदय भूखण्ड (भैय्या प्लाट)" इति। नूनमेव सः स्थावरसम्पदभिकर्ता स्यात्। आश्चर्यान्वितोऽहं मम श्वशुरं सहासम् उक्तवान्, "अत्रत्याः जनाः अतीव आढ्याः, अत्र लघुवस्तूनि न, अपि तु दशलक्षरुप्यकात्मकाः, वा ततोऽपि महार्घाः भूखण्डाः एवं मार्गेषु हस्तं दर्शयित्वा विक्रीयन्ते। भवानपि द्वित्रान् भूखण्डान् क्रीत्वा *खोसला का घोसला* इति हिन्दीचित्रपटस्य नामधेयम् आधृत्य तेषां *दामले के बंगले* इति नामधेयं करोतु"।
    Comment
    Views ३८.८ सह.
    Delete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓