कृतं जानातीति कृतज्ञः। कृतं न जानातीति अकृतज्ञः। कृतं हन्ति इति कृतघ्नः। कृतम् उपकारं केनचित्, कस्माच्चित् वा किञ्चित् अनुगृहीतः, यदि तत्कृतमुपकारं न स्मरसि तर्हि त्वम् अकृतज्ञः इति कथ्यसे। तथैवात्र श्लोके कविः हंसं वदति - कथं त्वम् ऋणमुक्तो भवसि। यद्यपि हंसैरेव ह्रदस्य शोभा वर्धते परन्तु ह्रदकृतम् उपकारोऽपि हंसैः न विस्मर्तव्यः इति भावः। किञ्चित् ऋणं न कदापि मुच्यते , यथा अस्माकं जीवने - मातॄणं , पितॄणं, गुर्वृणम् इति।
One must always remain deeply grateful to the source of their nourishment, shelter, and success, recognizing that some debts can never be fully repaid.
#dailysloka #sloka #ऋणम् #मातॄणं#सद्विचारः #पितॄणं#गुर्वृणम् #collection
#संस्कृतायनम् #samskritayanam #saṃskṛtāyanam #সংস্কৃতায়নম্ #sloka365 #DrRahul #drrahul #DrRahulMaity