🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Chinmay Phadke Public
    ४/१२/२०२६, ६:१४:१७ पू (4/12/2026, 6:14:17 AM)
    #SanskritStory #SanskritArticle #SanskritJokes #हास्यकनिका

    2007 वर्षे प्रदर्शितः "लाईफ् इन दी मेट्रो" चित्रपटः स्मर्यते किम्? अस्तु, चित्रपटः तु लोकप्रियतां न गतः, किन्तु तस्मिन् पौनःपुन्येन प्रस्तुतः एकः दृश्यः आसीत्, यश्च उपहासस्य विषयः अभवत्। एषः उपहसनीयः दृश्यः एव (कु)ख्यातिं गतः। चित्रपटे यदा यदा कापि हृद्स्पर्शिणी, विघ्नमयी घटना घटति, तदा तदा त्रयः गायकाः आविर्भवन्ति। प्रकटीभूय त्रयः अपि स्वमुखेषु विविधाः भावाभिव्यक्तयः प्रदर्शयन्तः भावुकानि गीतानि उच्चैः गायन्ति। एकः नेत्रे निमील्य, ललाटे वलयान् दर्शयन् नैराश्यं प्रकटयितुं प्रयतमानः गायति, अपरः तु विस्फारिताभ्यां नेत्राभ्यां, अश्रूणि स्रावयन् हृदाघातं प्रदर्शयन् गायति, तृतीयः मनुष्यः शिरश्चालनपुरस्सरं गायन् एकहस्ते गिटारवाद्यं गृह्णन् द्वितीयेन हस्तेन गिटारतन्त्रीः सम्पीडयन् गायन् च स्वोद्वेगं हुङ्कारयति। हृदयद्रावकाः प्रसङ्गाः, भावाभिषिक्तानि सुमधुराणि गीतानि, गायकानां मुखेषु दृश्यमानाः भावमुद्राः एतेषां समवायेन भावसंविलितं वातावरणं निर्मातुं चित्रपटनिर्देशकैः भूरिपरिश्रमाः कृताः। किन्तु अभिनये अननुभविभिः गायकैः प्रकटितैः कृत्रिमभावैः वातावरणस्य गाम्भीर्यमेव नष्ट्वा प्रत्युत हासं जनितम्। 

    तादृशी एव घटना घटिता मम जीवने। अहं रेलयानेन मम मित्रेण नीरजेण सह प्रयाणाय प्रस्थितः। रेलयाने नीरजः मां तस्य प्रेमभङ्गस्य कथां श्रावितवान्। उद्विग्नः सन् सः एकैकं वृत्तान्तं विवृतवान्। तदनु तत्र त्रयः तृतीयपन्थिनः आगताः। नीरजस्य म्लानमुखं दृष्ट्वा, तस्य खेदवचः श्रुत्वा उग्ररवेण गीतानि गायन्तः ते नीरजम् उद्दिश्य "हे प्रेममूढ, झटिति धन देहि मे", इत्युक्त्वा धनं याचितवन्तः। 

    अतीव स्वारस्यकरी स्थितिः सञ्जाता। यथा चित्रपटे गम्भीराः घटनाः, तथा अत्र नीरजस्य प्रेमभङ्गकथा, यथा चित्रपटे त्रयः गायकाः, तथा अत्र त्रयः तृतीयपन्थिनः, चित्रपटेऽपि त्रयः उच्चैः गायन्ति, अत्रापि तथैव। नीरजस्य सान्त्वने रतस्य, उभयोः घटनयोः साधर्म्यं परिलक्ष्य विचलितस्य मम मुखात् अनवधानेन हासः प्रस्फुटितः। 

    अनेन अनाहूतेन हासेन यद्यपि नीरजः कुपितः मयि तत्क्षणे, तद्यपि चित्रपटेन सह भूतं विचित्रसंयोगं स्मारं स्मारं अधुना हसामि अहम्।
    Comment
    Views २५.८ सह.
    Delete
    1 comments
    Profile pic
    Prema ShreePublic
    ४/१२/२०२६, ८:१४:२९ अ (4/12/2026, 8:14:29 PM)
    अहम् अपि हसितवान्।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓