🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    सूर्यः

    सुमन्तमण्डलः Public
    ४/१२/२०२६, ९:०३:१२ अ (4/12/2026, 9:03:12 PM)
    Image

    सूर्यः किञ्चन नक्षत्रं विद्यते। किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते। खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति। तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति। सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति। नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम्। भूमेःविस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम्। द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम्। अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति। सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति। सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते। वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते।

    #सूर्यः #संस्कृतम् #Sanskrit
    Comment
    Views २५.८ सह.
    Delete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓