
पश्चिमवङ्गराज्ये आश्वयुजमासः वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव । एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनचतुष्टयं यावत् भवति ।
-----------------------------------------------
In the state of West Bengal, the month of Ashwin (Āśvayuja) becomes the most significant part of the year, because it is in this very month that the people celebrate the उत्सव of Navaratri with great enthusiasm. The tradition of observing Durga Puja began many centuries ago. From the study of Indian literature, it is known that Durga Puja has been practiced since even before the 12th century. From this, it is clear that this festival has been celebrated continuously for a very long time.
In earlier times, landlords and merchants used to organize the पूजा in their own homes, bearing all the expenses themselves. Regardless of caste or economic differences, all neighbors would gather at the place of worship. Everyone was welcomed, and food was provided in abundance.
However, in the present day, this पूजा is conducted collectively by people beyond caste distinctions. For this purpose, various associations, committees, and groups are formed, and through the organization of the पूजा, gradual development of social values used to take place in earlier times. This festival, being a symbol of social and religious unity, had achieved great progress.
But now, due to changing circumstances, it has become more of a display of grandeur and extravagance. Earlier, only Goddess Durga alone was worshipped. But now she is depicted along with her family. The idol of Durga is presented prominently in the divine presence of her husband Shiva and her sons Ganesha and Kartikeya, artistically arranged to create a sacred atmosphere.
The पूजा continues for four days.
#दुर्गापूजा #संस्कृतम् #संस्कृतिः