🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Chinmay Phadke Public
    ४/२५/२०२६, १२:१४:०९ अ (4/25/2026, 12:14:09 PM)
    आदौ तु एकस्मात् वर्षात् प्राक् पहलगामे आतङ्क्याक्रमणे हुतिङ्गतेभ्यः पर्यटकेभ्यः श्रद्धाञ्जलिं समर्प्य कृपया लेखम् एतत् पठन्तु। अधस्तनं यूट्यूबगोष्ठीम् अपि शृण्वन्तु इति मे निवेदनम्।

    https://youtu.be/CcBxSyZoAXM?si=fBHf_mTZnqs2rhJq

    जानेवारी २०२५ मासे सञ्जातः, सर्वैः श्रोतव्यः चक्षून्मीलन् अयं वार्तालापः। वार्तालापेऽस्मिन् डाॅ. अभिनवपण्ड्यामहोदयेन भारते सम्भाव्यम् आतङ्क्याक्रमणम् ऊहितम् आसीत्। दौर्भाग्यवशात् २२ एप्रिलमासे महोदयस्य भविष्यवाणी पहलगामे वास्तविकी अभवत्।

    डाॅ. अभिनवः पण्ड्या Usanas Foundation इति भारते सञ्चालितं परराष्ट्रनीतिं, रक्षाव्यवस्थां च तर्कयतः, विश्लेषयतः प्रबुद्धमण्डलस्य (think tank) मुख्यः कार्यकारी अधिकारी (CEO) अस्ति। 

    तेन पाकिस्तानेन कतिपयेभ्यः वर्षेभ्यः रच्यमाणानां षडयन्त्राणां विषये विस्तरेण कथितम् अस्ति। तेन ज्ञापिताः हृदयद्रावकाः काञ्चन अंशाः एतावता -
    १. Article 370 अपसारणेन तु पाकिस्तानस्य चेतना एव अपाकृष्टा। ततः प्रभृति पाकिस्तानः आतङ्कस्य नूतनान् तन्त्रान् रचयन् अस्ति। 
    २. अधुना पाकिस्तानेन अफगाणसैनिकाः नियुक्ताः आतङ्किजाले। एते अफगाणसैनिकाः पर्वतीयेषु क्षेत्रेषु, प्रतिकूले ऊनपरिमिते तापमाने अपि युद्धं कर्तुं समर्थाः। एतेषां साहाय्येन अधिकानाम् आतङ्किनां प्रशिक्षणं प्रचलति। प्रशिक्षुषु बहवः काश्मीरीयाः स्थानिकाः अपि सन्ति। हमासेन इस्रायले कृतस्य आक्रमणस्य सदृशं कृत्य पाकिस्तानः नियोजयन् अस्ति।
    ३. टर्कीदेशतः, चीनदेशतः आधुनिकाः, सशक्ताः अस्त्राः प्राप्ताः सन्ति पाकिस्तानेन। 
    ४. चीनदेशस्य सीमनि गलवानक्षेत्रे सङ्घर्षस्य कारणात् भारतेन महत् सैनिकबलं पाकिस्तानसीम्नः अपसार्य चीनसीम्नि प्रेषितम्। एतस्य लाभः पाकिस्तानेन साधितः, अधिकेषु क्षेत्रेषु आतङ्किनः अवैधरीत्या प्रवेशय्य। हिन्दुबहुले जम्मूक्षेत्रे अपि महत्यां सङ्ख्यायाम् आतङ्किनः आगताः सन्ति।
    ५. भारतस्य गुप्तचरविभागः प्रौद्योगिकीये अन्वेषणे अतीव उन्नतः, किन्तु मानवीये अन्वेषणे तादृशं दार्ढ्यं नास्ति। मानवीये अन्वेषणे शत्रुपक्षे, शत्रुदेशे, आतङ्किनां समूहेषु च कस्यापि गुप्ताभिकर्तुः (double agent) रोपणं महत्त्वपूर्णं विद्यते। एतस्मिन् क्षेत्रे महान्तः सुधाराः आवश्यकाः। 
    ६. काश्मीरे नियुक्तेभ्यः IPS पदाधिकारिभ्यः काश्मीरक्षेत्रेण सह, तत्रत्यया भाषया सह सुपरिचयः, तत्रत्यैः जनैः सह (सामान्यैः, अपराधिभिश्चापि सह) सम्बन्धप्रस्थापनं, तदर्थम् भूस्तरे करणीयाः महान्तः परिश्रमाः, अनेन च स्वसम्पर्कजालस्य सुदृढीकरणं च इत्यादयः अपेक्षिताः सन्ति। किन्तु २०१८ अनन्तरं तत्र नियुक्तेषु पदाधिकारिषु तावत् गाम्भीर्यं न दृश्यते।
    ७. Article 370 अपसारणोत्तरं स्थितिः सामान्यीभूता, वातावरणं सुरक्षितं च जातम् अस्ति इति सम्भ्रमवशात् भारतीयानां गुप्तचरबलानाम्, आरक्षकबलानां च कार्यशैल्यां किञ्चित् शैथिल्यम् आगतम् अस्ति।
    ८. अमेरिकादेशे अन्यान् देशान् दुर्बलान् कुर्वती एका यन्त्रणा सञ्चाल्यते, या गभीरराज्यम् (deep state) इति सम्बुध्यते। समानान्तरसर्वकारः इव कार्यं कुर्वती यन्त्रणा इयं भारतचीनसदृशान् बलाढ्यान् राष्ट्रान् दुर्बलीकर्तुं सततं प्रयतमाना अस्ति। भारतीयचीनयोः निरन्तरसङ्घर्षः तु गभीरराज्यस्य मुख्यं लक्ष्यम् अस्ति एव। किन्तु सद्यः एव (ऑक्टोबर २०२४ मासे) राजनयिकस्तरे उभयोः देशयोः गलवानादिप्रदेशेषु सञ्जातः गतिरोधः कूटनीत्या निवारितः। सीमनि अधुना स्थितिः पूर्ववती भूता अस्ति। एषा स्थितिः तु गभीरराज्यस्य वैफल्याय एव। अतः अधुना एतत् deep state पाकिस्तानं भारते आक्रमणाय सन्तेजयन् अस्ति।

    यद्यपि भारतः पहलग्रामाक्रमणस्य मुखभञ्नकरम् उत्तरं प्राददात्, टर्कीचीनतः प्राप्ताः अस्त्राः भारतीयास्त्राणां तुलनया बलहीनाः जाताः, पाकिस्तानः युद्धविरामं याचितुं विवशीभूतः, तथापि भासते यत् यदि अभिनवपण्ड्यामहोदयस्य एतान् परामर्शान् अनुसृत्य भारतीयसर्वकारः, सेना च पूर्वमेव उचितान् पदक्रमान् अन्वस्थास्यत्, पूर्वसिद्धतां काश्मीरे सुरक्षाव्यवस्थां च व्यधास्यत्, तर्हि निष्पापाणां २६ पर्यटकाणां प्राणाः हृताः न अभविष्यन्। 
    Comment
    Views २५.८ सह.
    Delete
    2 comments
    Profile pic
    Prema ShreePublic
    ४/२५/२०२६, ३:४२:२७ अ (4/25/2026, 3:42:27 PM)
    अस्माकं राष्ट्रं सुरक्षितं भवेत्।
    DislikeCommentDelete
    Profile pic
    कल्पिका - To Help YouPublic
    ४/२५/२०२६, ८:०२:५९ अ (4/25/2026, 8:02:59 PM)
    Today is last date Play Now
    🚩 Shankara Jayanti Quiz is LIVE! 🚩
    🚩 शङ्कर जयंती विशेष प्रश्नोत्तरी (Quiz) अब लाइव है! 🚩
    Play Now : https://sanskritkalp.com/game/sanskrit-kalp-challenge
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓