🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    गौतम् बुद्धाः (बुद्धपुर्णिमा)

    Pahadi Public
    ५/२/२०२६, ११:३७:३४ पू (5/2/2026, 11:37:34 AM)
    गौतमस्य बुद्धस्य जन्मः 563BC तमे वर्षे लुम्बीनी प्रान्ते नेपालदेशे अभवत् । एतस्य पितुः नाम सुद्धोधन मातुः नाम माया आस्ताम् । सः कपिलवस्तोः
    सक्यवंशजस्य राजा आसीत् ।  गौतमः एकः क्षत्रियः आसीत् । एतस्य विवाहः यशोधारा सह षोडशवर्षे आयौः अभवत् । एकः पुत्रः अपि
    जातः ।
    एकदा सः रथे अटति स्म । सः केचन दृश्यान् यथा तेषां दृश्येषु एकं रोगीं एकं वृद्धं एकं शवं अपि च दृष्टवान् । एतान् दृष्ट्वा तस्य मनसि पीङा उद्भवति स्म । एषा पीङा कथम् निवारणीया । एतस्या उत्तरं अन्वेषणार्थं सः संसारं त्यक्त्वा वनं गतवान् । सः सर्वं त्यक्त्वा एके वृक्षे अधोः उपविष्टवान् परन्तु किमपि न प्राप्तवान् । तस्मिन् एव समये, काश्चन महिलाः तस्य पार्श्वात् मार्गात् गच्छन्त्यः गायन्ति यत् गीतसंगीतं मधुरं भवति यदा मध्यं स्वरेण गायन्ते न शीध्रं न मन्दं । एतं श्रुत्वा गौतमः तस्य दिशां प्राप्तवान् । तदा बिहारराज्यस्य बौधगयाक्षेत्रैव ध्यानेन गौतमः परमं ज्ञानं प्राप्तवान् । तथैव बौद्धः अभवत् । तत्पश्चात् सारनाथे बौद्धः तस्य प्रथमं उपदेशं
    दत्तवान् । वैशालीनगर्यां बौद्धः तस्य अन्तिमं उपदेशं दत्तवान् । 487BCतमे वर्षे कुशीनगरे सः निर्वाणं प्राप्तवान् । सः बौद्धधर्मस्य प्रर्वतकः कथ्यते । बौद्धस्य जीवनस्य त्रिस्रः घटनाः यथा जन्मं-मरणं-ज्ञानं एकस्यां तिथौ अभवत् अथात् वैशाखामासस्य शुक्लपक्षे पूर्णिमासीतिथौ ।

    हिन्दोः शास्त्रस्य अनुसारेण विष्णुः भगवान् वैशाखामासस्य शुक्लपक्षे पूर्णिमासीतिथौ पृथ्व्यां अवतीर्णवान् । अतः एतस्यां तिथौ बुद्धपुर्णिमा रुपेण आचर्यते । अग्निपुराणे इति कथ्यते यत् कलयुगे प्रायः जनाः वेदस्य निन्दां कुर्वन्ति । ते वेदाधिकारिणः नास्ति अतः तेषां धर्मात् निष्कासनं आवश्यकं अतैव ईश्वरः बौद्धरुपेण अवतीर्णवान् तथैव अन्यः धर्मस्य स्थापनं कृतवान् ।  यस्मिन् यज्ञः मन्त्रौचारणं अपि न भवति इत्युक्ते वेदस्य रक्षा भवति । सः क्षत्रियः आसीत् ।
    विद्यालये सः वेदादयः शास्त्राणि अधितवान् । तेषां शिक्षां अन्यरुपेण सः बौद्धधर्मस्य शिक्षारुपेण प्रसारितवान् । तथैव बौद्धधर्मावलम्बिनः जनाः प्रायः
    शान्तया वर्तन्ते ।          
    कृपया अवधानेन पठतु । 😊😊
    जयतु सस्कृतं जयतु भारतम्
    पहाडी (लेखः18) 01/05/2026
    #PahadiArticles
    Comment
    Views २० सह.
    Delete
    2 comments
    Profile pic
    चञ्चलःPublic
    ५/२/२०२६, १२:५९:४५ अ (5/2/2026, 12:59:45 PM)
    अतीव प्रशंसनीयः लेखः! भगवतः बुद्धस्य जीवनस्य यात्रा — तस्य वैराग्यात् आरभ्य निर्वाणपर्यन्तम् — अतीव मार्मिकतया चित्रिता अस्ति।
    DislikeCommentDelete
    Profile pic
    Prema ShreePublic
    ५/२/२०२६, २:५४:३० अ (5/2/2026, 2:54:30 PM)
    बुद्धपूर्णिमा-विषये सम्यक् सूचना।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓