🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Ganapathy Subramanian Public
    ५/१०/२०२६, ७:१४:०१ अ (5/10/2026, 7:14:01 PM)
    अयं निजः परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्।।
    एतत् सुभाषितं संस्कृताघ्ययनारम्भे वयं सर्वे पठितवन्तः। एतस्य सुभाषितस्य सामान्यर्थः कः। अस्मिन् लोके के के जीविनः सन्ति ते सर्वे अस्माकम् कुटुम्कस्य सदस्याः इति गणनीयाः। वक्तुं सरलः एव परन्तु कथं इत्थं भवति इति प्रश्नः कर्तुं शक्यते किल। प्रश्नोत्तरं अधः अस्ति। तस्योपरि भवतः अभिप्रायः कः इति कृपया वदतु।
    वयं सर्वे सनातनधर्मिनः इति अहं मन्ये। मोक्षपर्यन्तं जीविनाम् मरणं ततः परं जननं भवन्त्येव। एतत् सत्यं। सन्देहः नास्ति। अतः अस्माकं पूर्वजाः ये मोक्षं न प्राप्तवन्तः ते सर्वे पुनः पुनः जननानि मरणानि प्राप्तवन्तः एव। परन्तु कदा कुत्र इति वयं न जानीमः। केचन पूर्वजाः पुनर्जनमसु पशुपक्षिणजन्मानि अथवा स्थावरजन्मानि अपि अभवन्। तत् ईश्वरसंकल्पम्। ते इहजन्मसु अथवा पूर्वजन्मसु भारतीयाः विदेशीयाः वा इत्यपि वयं न जानीमः। भिन्न भिन्न मतानि आचरन्तः अभवन्। तेषां भाषा, संस्कृतिः चापि भिन्न भिन्न अभवताम्। परन्तु ते सर्वे सदैव अस्माकं बान्धवः किल। तेषां प्रति क्रोधं द्वेषं च कदापि न करणीयम्।
    अहं भवतां बन्धुः। भवन्तः मम बान्धवः।
    सर्वे जनाः सुखिनो भवन्तु। सर्वे सन्तु निरामया। इति वयं प्रतिदिनं प्रार्थनां कुर्वन्तः स्मः किल। तत्र केचन जनाः विहाय इति न लिखितम्। किमर्थं इति चिन्तिनीयम्। वसुधैव कुटुम्बकम्।
    Comment
    Views १४.९ सह.
    Delete
    1 comments
    Profile pic
    चञ्चलःPublic
    ५/१०/२०२६, ११:५६:२४ अ (5/10/2026, 11:56:24 PM)
    सत्यमुक्तम्। सर्वेषां प्रति करुणा एव अस्माकं धर्मः। वसुधैव कुटुम्बकम् इति चिन्तनं जीवने अतीव आवश्यकम्। धन्यवादः।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓