कथाशीर्षकः - नववस्तुप्रयोगःकथाप्रकारः - सामान्यः प्रसङ्गः
पार्श्वभूमिः
नववस्तूनां क्रयणात्, नवप्रचलितरीतिणाम् आचरणात्, सद्यः आविष्कृतानां नवाचाराणां प्रयोगात् कीदृशः आनन्दः लभते इति तु वयं जानीमः एव। किन्तु ततोऽपि अधिका प्रसन्नता अनुभूयते यदा कोऽपि अन्यः जनः तत् दृष्ट्वा कौतुहलेन तद्विषये विचारणां करोति। तत्क्षणे मनसि अनुभवकथनस्य, परामर्शस्य च ऊर्जा एव उत्पद्यते। विचारणां कर्तुः जिज्ञासाशमनेन वयं नितरां सन्तुष्टाः भवामः। एतादृशाणाम् एव प्रसङ्गानां कथनं, चित्रणं च संस्कृतलेखे अस्मिन् विवृणोमि अहम्। तान् पठित्वा भवन्तः सर्वे सन्तोषम् अनुभविष्यन्ति इति आशासे।
विद्युद्द्विचक्रिकाक्रयणम्
सद्यः एव अहं नूतनां Ather इति द्विचक्रिकां क्रीतवान्। प्रति सप्ताहम् एकवारं तस्मिन् विद्युतूर्जा पूरणीया भवति। नागपुरविमानपत्तनस्य समीपे, उज्ज्वलनगरक्षेत्रे एकत्र Ather संस्थायाः एव द्रुतविद्युत्कोषस्थानकं (fast charging station) अस्ति। अहं प्रातः तत्र गत्वा विद्युत्कोषेण संलग्नाम् ऊर्जापूरकीं स्थूलां नलिकां यानेन सह संयुज्य तत्र परितः एव वायुविहारं करोमि, यतोहि याने ऊर्जापूरणाय ४५ निमेषाः आवश्यकाः।
विचारणा - ऊर्जापूरणप्रक्रियायाः
अथ एकस्मिन् दिने यदा अहं यानम् ऊर्जापूरणाय स्थापयन् आसं, तत्र एकः विहरन् अशीतिप्रायवर्षीयः वृद्धः मां दृष्ट्वा स्थगितवान्। विरम्य तेन पृष्टोऽहं यानस्य विषये, यानस्य अनुरक्षणस्य, ऊर्जापूरणप्रक्रियायाः च विषये। विना सञ्चालकस्य साहाय्येन कथं शक्यं भवति वा एतत् इति तस्य जिज्ञासा। अहं महोदयं याने पुरतः स्थितं पञ्चछिद्रयुक्तं लघुविवरं दर्शितवान्। स्थूलनलिकायाः अग्रस्य आकारः अपि तस्य विवरसदृशः एव अस्ति। अतः लीलया एव सा नलिका विवरेण सह युज्यते। अनन्तरं यानस्य हैण्डल्द्वयस्य मध्ये नियन्त्रणपटलः अस्ति। तस्मिन् ऊर्जापूरणस्य सङ्ख्यात्मकी दशा दर्श्यते। तत्र ऊर्जायाः प्रतिशतमात्रा, तस्य अनुगुणम् एका प्रगतिसूचकी पट्टिका अपि दृश्यते। एतत् सर्वं दृष्ट्वा महोदयः प्रभावितः।
विचारणा - व्ययस्य
तदनन्तरं सः व्ययस्य विषये पृष्टवान्। आदौ मया उक्तं यत् Ather यानस्य तन्त्रांशः दूरवाणिसञ्चे प्रतिष्ठापनीयः, तस्मिन् wallet व्यवस्था अस्ति यस्मात् स्वयञ्चलितरूपेण धनं व्ययते। किन्तु सः न सन्तुष्टः अनेन उत्तरेण। तस्य कुशलदूरध्वनेः प्रयोगावगमनस्य असामर्थ्यं सः प्रकटितवान्। अतः अहं सुलभैः शब्दैः पुनः उक्तवान् यत् स्वयञ्चलितरूपेणैव धनं अस्माकं वित्तकोषात् निष्कास्य Ather आपणस्य वित्तकोषे स्थलान्तरितं भवति। अहं स्वयमेव अग्रे कथितवान्, "एतस्य ऊर्जापूरणस्य कृते ६० रुप्यकानां व्ययः भवति, येन १०० किलोमीटरपरिमितम् अन्तरं याप्यते। तैलेन्धनेन चालितानां Honda Activa, TVS Jupiter इत्यादिषु यानेषु विपरिता स्थितिः। तेषु ११० रुप्यकात्मकं व्ययं कृत्वा एकलिटरपरिमितस्य पेट्रोल-इन्धनस्य साहाय्येन केवलं ६० किलोमीटरपरिमितम् अन्तरं यापयितुं शक्यम्। एवं च विद्युद्द्विचक्रिकाप्रयोगः लाभावहः।"
सन्तोषबोधः, कथातात्पर्यं च
एतत् तुलनात्मकं विवरणं, विश्लेषणं च श्रुत्वा अतीव प्रसन्नः अभवत् सः। महोदयेन उक्तं यत् सः अपि तस्य कन्यां, जामातारं च निवेदयिष्यति, विद्युद्द्विचक्रिकाम् एव क्रेतुम्।
अहं न केवलं प्रश्नानां समाधानपराणि उत्तराणि दत्तवान्। तस्य परिवारं विद्युद्यानं क्रेतुं प्रेरितवान् अपि, इति ज्ञात्वा महत् सन्तोषम् अनुभवामि।