🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Chinmay Phadke Public
    ५/२०/२०२६, ९:२९:०३ अ (5/20/2026, 9:29:03 PM)
    (प्रथमः भागः)
    कथाशीर्षकः - नवरीत्याः आचरणम्
    कथाप्रकारः - सामान्यः प्रसङ्गः 

    पार्श्वभूमिः 
    नागपुरनगरे MIHAN इति क्षेत्रम् अस्ति, नगरस्य नैऋत्यदिशि बाह्यवर्तिनि भागे (outskirts)। तत्र अनेकानाम् IT संस्थानां कार्यालयानि सन्ति। तासु एकं समुत्थानम् अस्ति InfoceptsTechnologies इति। मम गृहम् अपि नागपुरस्य नैऋत्यभागे एव, किन्तु मत्गृहात् MIHAN क्षेत्रं १३ किलोमीटरपरिमितं दूरम् अस्ति। तत्र समीपस्थं मेट्रोस्थानकं "खापरी" इत्याख्यम् अस्ति। सा IT संस्था खापरिस्थानकात् ४ किलोमीटरपरिमितं दूरं स्थिता अस्ति। यद्यपि नागपुरनगरे मेट्रोरेलयानसेवा अनुस्यूततया प्रचलति, बहवः छात्राः, युवकाः मेट्रोयानस्य प्रयोगं कुर्वन्ति अपि, तथापि मेट्रोयाने सायकलयानस्थापनं कुर्वन्तः प्रयाणिकाः विरलाः खलु। अहं स्वयं तादृक् प्रयोगं कृतवान्, अन्यम्च एकं जनं च प्रेरितवान् यदहं विवृणोमि।

    Agentic AI
    Infocepts संस्थायाम् एकस्शिन् शनिवासरे Snowflake Northstar इति प्रविधितज्ञसमूहस्य परिषद् आयोजितम् आसीत्। अद्यत्वे प्रचलितायाः जननात्मक्याः, परामर्शपरायाः कृत्रिमकुशलतायाः (Generative AI, Agentic AI) सञ्चालनं Snowflake इति दत्तांशमञ्चे (data platform) कथं भवति, इत्येतस्य प्रात्यक्षिकम् आसीत् तस्मिन् परिषदि।

    मेट्रोरेलयात्रा - सायकलयानं नीत्वा
    अहं कार्यालये परिधानार्हाणि वस्त्राणि धृत्वा, पादत्राणानि परिमार्ज्य, स्कन्धे सङ्गणकस्यूतस्य भारं ऊढ्वा गृहात् प्रस्थितवान् सायकलयानेन। गृहात् अर्धकिलोमीटरपरिमिते दूरं स्थिते जयप्रकाशनगरम् इति रेलस्थानके सायकलयानं चालयन् रैम्प् मार्गेण प्रविश्य, तत्र अन्तः QR code प्रणाल्या शुल्कसङ्ग्रहणद्वारम् उद्घाट्य, स्वयंचलितसोपाने कथञ्चिदपि सायकलयानम् आरोप्य (यतोहि तत्रत्यम् उद्वाहनं निर्माणाधीनम् अस्ति), रेलमञ्चे किञ्चित्कालं प्रतीक्ष्य, मेट्रोयानस्य आगमनोत्तरं तस्मिन् सायकलयानेन सह प्रविष्टवान्। १५ निमेषानन्तरं पञ्चषस्थानकानाम् अनन्तरं खापरिस्थानके अवतरितवान्। तस्मिन् स्थानके उद्वाहनम्, रैम्प् इति सर्वाः सुविधाः सन्ति। अतः अतीव लीलया स्थानकात् बहिरागत्य Infocepts संस्थायाः कार्यालयं प्राप्तवान् अहम्। 

    (अनुवर्तते)
    Comment
    Views ९ सह.
    Delete
    2 comments
    Profile pic
    Prema ShreePublic
    ५/२०/२०२६, ११:२३:२६ अ (5/20/2026, 11:23:26 PM)
    भवता कः अन्यः प्रेरितः? ज्ञातुम् उत्सुकता।
    DislikeCommentDelete
    Profile pic
    चञ्चलःPublic
    ५/२१/२०२६, १२:४०:०५ पू (5/21/2026, 12:40:05 AM)
    अतीव रोचकः प्रेरणादायी च अनुभवः। मेट्रोयात्रायां सायकलयानस्य उपयोगः पर्यावरणहितकरः, स्वास्थ्यवर्धकः, समयस्य च सम्यक् उपयोगः इति स्पष्टं दृश्यते। भवतः एषः नूतनरीत्याः प्रयोगः अन्येषामपि प्रेरणायै भवतु। साधु!
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓