(द्वितीयः अन्तिमः च भागः)कथाशीर्षकः - नवरीत्याः आचरणम्
कथाप्रकारः - सामान्यः प्रसङ्गः
प्रथमः भागः एतस्मिन् जालपुटे प्रकाशितः अस्ति
https://sanskritkalp.com/post/pc_4oi/parathamah
क्षणिका समस्या प्रत्यागमने
Infocepts मध्ये आयोजिते कार्यक्रमे प्रत्येकं प्रतिभागिने एकं स्यूतं (Duffle bag), काफी-चषकं च दत्तम्। अधुना समस्या उत्पन्ना। मत्सकाशम् आदौ एव सङ्गणकस्यूतं, यस्य भारं पृष्ठे वोढव्यं, तत् अतिरिच्य एतत् अधिकं स्यूतं, तदपि सायकलयानेन कथं नेयम् इति महान् प्रश्नः। सौभाग्यवशात् मम एकं मित्रं तन्मयः कारयानेन आगतः आसीत्, सः मम गृहात् समीपमेव निवसति। अहं तस्य कारयानेन न केवलं Duffle bag, अपि तु मम सङ्गणकस्यूतम् अपि प्रेषितवान्। एवं च न केवलं समस्या इयं निवारिता, अपि तु मम प्रत्यागमनयात्रा सामग्रीरहिता इतोऽपि सुगमा, अनुकूला च अभवत्।
जिज्ञासा
साम्प्रतं MIHAN स्थितं खापरिस्थानकं मेट्रोसेवायाः अन्तिमं स्थानकम् (Terminus) अस्ति। ततः अग्रे मेट्रोरेलसेवा निर्माणाधीना अस्ति। अहं पुनः सायकलयानेन मेट्रोयाने आरूढवान्। प्रथम स्थानकम् इति कारणात् सम्मर्दः महान् नासीत्। अनेकाः रिक्ताः आसन्दाः आसन्। अहं प्रकोष्ठिकायां कोणस्थे भागे अतिष्ठम्। रिक्तप्रायायां प्रकोष्ठिकायाम् अस्यां सहसैव एकः जनः मां प्रति आगच्छन् दृग्गोचरीभूतः। कः वा सः, कोऽपि आरक्षकः, परीक्षकः, मेट्रोकर्मचारी तु न, सायकलयानस्य आनयनेन कोऽपि नियमः तु न उल्लङ्घितः प्रमादवशात्, इत्यादयः प्रश्नाः मनसि आगताः। किन्तु यदा सः मम समीपे प्राप्तः, तस्य मुखे स्मितं, कापि जिज्ञासा च दरीदृष्टा। सस्मितं तेन पृष्टं, "भवान् नित्यं यात्रां करोति वा मेट्रोयानेन सायकलं नीत्वा?" मया उक्तं, "अहं नित्यप्रवासी तु नास्मि मेट्रोरेलस्य, किन्तु द्वित्रवारं सायकलम् आनीय प्रवासं कृतवान् अस्मि।" सः अग्रे पृष्टवान्, "सायकलयानस्य कापि भिन्ना नियमावली, अधिकं शुल्कम् आवश्यकं वा? कमपि समाह्वानं, कष्टं अनुभूयते वा? वस्तुतः अहं प्रतिदिनं "रहाटे कॉलनी" स्थानकात् "खापरी" स्थानकं पर्यन्तं गमनागमनं करोमि। सायकलयानं नीयते चेत् सौकर्यं भवेत्, किन्तु कदापि धार्ष्ट्यं न कृतं मया।"
प्रेरणम्
अहं तं संस्तुतवान्, "कापि भिन्ना नियमावली, शुल्कभारं वा नास्ति। स्थानकस्य अन्तः अवतीर्य सायकलयानं कर्षणीयं, न तु चालनीयम् इति एकः एव नियमः अस्ति। जयप्रकाशनगरस्थानके उद्वहनस्य अभावात् सोपानेन कर्षणं किञ्चित् कष्टप्रदं, किन्तु एतादृक् स्थानकं विरलमेव। प्रायशः सर्वेषु स्थानकेषु उद्वाहनसुविधा अस्ति एव। भवान् निःसङ्कोचं प्रवासं करोतु सायकलयानं मेट्रोयाने स्थापयित्वा।" "अवश्यं, धन्यवादः भवते एतत् सर्वं विस्तरेण कथयितुं, शङ्काः च निवारयितुम्। अहम् अवश्यम् एतत् प्रयोगं करिष्यामि।" इति सः आश्वासनपरेण स्वरेण, सङ्कल्प-पुरस्सरम् उक्तवान्। तस्य वचनेन अहमपि सन्तोषम् अन्वभवम्।