कथाशीर्षकः - Enrico Heightsकथाप्रकारः - विनोदी किन्तु वास्तविकः प्रसङ्गः
अद्य एका अतीव सरसा, विनोदिनी च घटना घटिता।
सन्दर्भः
नागपुरे "जयप्रकाशनगरम्" इति मेट्रोस्थानकं NH-7 इति राष्ट्रीयमहामार्गे स्थितम् अस्ति। महामार्गस्य उपरि महामार्गात् समान्तरम् अस्ति Orange line इति मेट्रोमार्गिका, महामार्गस्य उभयतः मेट्रोस्थानकस्य प्रवेशद्वारे स्तः। अग्रे एषा Orange line मार्गिका विमानपत्तनं प्रति गच्छति।
जयप्रकाशनगरमेट्रोस्थानकात् पूर्वमेव महामार्गे स्थितः Enrico heights इति बृहत् सङ्कुलः अस्ति। तस्मिन् शतप्रायाणि गृहाणि, बहवः Max, Sketchers, Puma, Reebok, Sara, Adidas इति आपणानि, Dali - the art café इति इटलीदेशस्य कलायाः विषयवस्तु (theme) आधृत्य सुसज्जितं खाद्यगृहम् इत्यादिभिः विभूषितं वास्तु इदम्। किन्तु एतान् सर्वान् अतिरिच्य अपि एषः सङ्कुलः महत्त्वभाक् भूतः अस्ति, नितीनगडकरीमहोदयस्य निवासस्थानस्य कारणात्। आं, गडकरीमहोदयः अस्मिन् सङ्कुले एव निवसति। Google maps मध्ये अपि "Nitin Gadkari House" इति अन्विष्यमाणे सति Enrico Heights सङ्कुलः प्राप्यते। मेट्रोयानतः अपि सङ्कुलः एषः स्पष्टः दृश्यते।
विनोदी प्रसङ्गः
अहम् अद्य रविवासरे प्रवासे मेट्रोप्रवासं कुर्वन् आसम्। मध्ये एकः द्वादशप्रायाणां पुरुषाणां समूहः यानम् आरूढवान्। पञ्चाशत्प्रायवर्षदेशीयाः सर्वे पुरुषाः। प्रायः मनोमोदनार्थं यात्रां कुर्वन्तः आसन् इति अभासत। तेषाम् उत्साहं, उल्लासोपेतं वार्तालापं, हास्यव्यङ्गपूर्णैः वचोभिः परिपूर्णाः तेषां संवादाः अतीव मनोरञ्जनात्मकाः आसन्। यदा मेट्रोयानं जयप्रकाशनगरस्थानकस्य समीपे आसन्नं, Enrico Heights यदा दृष्टिपथे आगतः, तदा एते सर्वे जनाः उच्चैः तं सङ्कुलं वीक्ष्य हस्तान् दोलयन्तः "गडकरीमहोदय, गडकरीमहोदय, नमो नमः" इति नाट्यमयाः लीलाः कुर्वन्तः, हास्यमयं वातावरणं जनितवन्तः। तेषां नाटके अहमपि अतिथिभूमिकां निभालितवान् (cameo appearance)। यदा ते परस्परेषु हसन्तः आसन्, तदा अहम् उक्तवान्, "अयि महोदयाः, एतावता उच्चैः मा आक्रोशन्तु। नितीनगडकरीमहोदयः वितर्दौ तिष्ठन् आसीत्, किन्तु भवतां कोलाहलात् विक्षुब्धः भूत्वा गृहस्य अन्तः गतवान्। " एतच्छ्रुत्वा अन्ये प्रवासिनः अपि हसितवन्तः।
मम वचनम् एतेभ्यः पुरुषेभ्यः अरोचत वा, ते विनोदरूपेण गणितवन्तः वा तेषाम् अवमानरूपेण, ते मम विनोदं श्रुत्वा हर्षिताः अभवन् वा क्रुद्धाः जाताः एतत् विना विचिन्त्य अहं झटिति जयप्रकाशनगरस्थानकात् अवतरितवान्, यतोहि मद्गृहं ततः समीपम् एव अस्ति।