कथाशीर्षक: - नवोढानां रोमाञ्चकी यात्रालेखक: - चिन्मय: फडके
(Part 1 / 3, त्रिषु प्रथमः भागः)
#SanskritStory #SanskritArticle
सामान्यत: प्रवासवर्णनेषु "यात्रा कथं करणीया, कुत्र कथं च गन्तव्यम्" इत्यादय: अंशा: विलिख्यन्ते, किन्तु अस्मिन् लेखे अहं यात्रासु किं न करणीयं, कथं न नियोजनीयं, कुत्र अवधानं दातव्यम् एतद्विषये मनोरञ्जनपुर:सरं विवृणोमि | "गन्तव्यस्थानं, लक्ष्यस्थानं तु निश्चयेन महत्त्वादायि किन्तु ततोऽपि महत्त्वपूर्ण: विद्यते तत् प्राप्तुं क्रियमाणा: यत्ना:, क्रियमाणा यात्रा" एताम् उक्तिं वयं सततमेव शृण्म: | नैकै: जनै: प्रतिपादिता उक्तिरियं मया मम पत्न्या च अनुभूता 2010 तमे वर्षे चण्डीगढत: पर्वतीयं शीतप्रदेशं मसुरीनगरीं कृतायां यात्रायाम् | न केवलं यात्रा रोमाञ्चकरी, तस्यां बहव: जीवनाध्याया: अपि अधीता: याञ्च लेखेऽस्मिन् विवृणोमि |
2010 तमे वर्षे विवाहितयो: आवयो: निवास: चण्डीगढनगरे आसीत् | चण्डीगढस्य सान्निध्ये पञ्जाबस्थानि, हिमाचलप्रदेशस्थानि, उत्तराखण्डस्थानि बहूनि पर्यटनस्थलाणि सन्ति | पर्यटनप्रिययो: नवोढदम्पत्यो: नौ कृते तु चण्डीगढनिवास: तु आनन्दस्य अवसर: एव | आवां प्रतिमासं द्विवारं सप्ताहान्ते (कदाचिदपि तु दिनैकस्य अवकाशं स्वीकृत्य) एतेषु स्थलेषु विहराव: स्म | एवमेव अक्तूबरमासे उत्तराखण्डे, गढवालप्रदेशे स्थितां मसुरीनगरीं गन्तुम् आवां निर्णीतवतौ | चण्डीगढे आवयो: परिचिता: जना: अल्पा: एव | अत: मसुरीप्रयाणस्य विषये कमपि विना पृष्ट्वा, कथं कुत्र गन्तव्यम् एतद्विषये केनापि सह विचारणाम् अकृत्वैव आन्तरजालत: सूचना: प्राप्य आवां प्रवासं नियोजितवतौ | चण्डीगढस्थं रेलस्थानकम् अतीव लघ्वाकारं, तत्र अल्पानामेव रेलयानानां सञ्चार: वर्तते | समीपस्थं बृहद् स्थानकमस्ति अम्बालास्थानकम् | उत्तरभारते रेलजाले विद्यमानं विशालं सन्धिस्थलम् अस्ति अम्बालास्थानकम् | मसुरीनगरी तु पर्वतस्था नगरी, तत्र रेलस्थानकं नास्ति, तत: समीपस्थं रेलस्थानकस्ति देहरादूनम् | तत्र अवतीर्य कारयानानि, जीपयानानि च लभ्यन्ते मसुरीं गन्तुम् | IRCTC इति जालपुटे अन्विष्य आवां 14632 अमृतसरदेहरादूनैक्स्प्रेस् इति रेलयानस्य आरक्षणं कृतवतौ | रेलयानस्य प्रस्थानसमय: अम्बालात: रात्रौ 02:30 वादने | चण्डीगढत: कैब्यानेन एकहोरात्मकीं यात्रां कृत्वा मध्यरात्रौ अम्बालास्थानकं प्राप्तवतौ | शीघ्रमेव स्थानकं प्राप्य आवां तत्र प्रतीक्षालये प्रतीक्षारतौ स्थितवतौ | अग्रिमाया: यात्राया: कृते उत्कण्ठितयो: स्वप्नान् रञ्जितवतो:, मसुर्यां किं किं करिष्याम:, कुत्र कुत्र अटिष्याव: एतस्य चित्रं मन:पटले चित्रितवतो: नौ ईशदपि कल्पना नासीत् यत् एषा उत्कण्ठा रोमाञ्चे , कस्मिश्चित् भारभावे च परिवर्तेत इति |
(अनुवर्तते)