कथाशीर्षक: - नवोढानां रोमाञ्चकी यात्रा
लेखक: - चिन्मय: फडके
(Part 2 / 3, त्रिषु द्वितीयः भागः)
#SanskritStory #SanskritArticle
प्रथमः भागः इत्यत्र - https://sanskritkalp.com/post/pc_4su/kathashirashaka
रेलयानं निर्धारिते समये तु आगतम् | यस्यां वेदिकायां रेलयानम् आगतं तत्र तु आवामुभौ एव आस्व | चिटिकापरीक्षकं विहाय निर्मनुष्या एवासीत् सा वेदिका (platform) | अत: आवां लीलया प्रविष्टवतौ रेलयाने | किन्तु अहो आश्चर्यम् , आवयो: ये आरक्षिते आसने आस्तां तत्र अन्यौ एव उपविष्टौ (तदानीं निद्रिस्तौ) आस्ताम् | मया चिटिका पुन: परीक्षिता, तस्यां लिखिता: प्रकोष्ठिकाक्रमाङ्क:, आसनक्रमाङ्कौ सर्वमेव उचितमासीत् | अत: मया तत्र निद्रिस्तौ तौ जागरितौ | अहं विनम्रतया उक्तवान् यत् एतौ आवयो: आसनौ | किन्तु ताभ्यामपि तयो: चिटिके दर्शिते | तयो: प्रयाणम् अमृतसरत: हरिद्वारपर्यन्तम् , आवयोश्च अम्बालात: देहरादूनपर्यन्तम्, उभयोरपि दिनाङ्क: समान:, आसनक्रमाङ्कौ अपि समानौ | ताभ्यामपि आसने IRCTC जालपुटे आरक्षिते आस्ताम् | कथं वा एतत् शक्यम् इति महान् प्रश्न: | अहं IRCTC जालपुटस्य ग्राहकसेवाक्रमाङ्के दूरध्वनिं कृतवान् , किन्तु सेवाधिकारिणा (customer care executive) सह अपि समस्याया: अस्या: उपाय: नासीत् | तेन संस्तुतं यत् चिटिकापरीक्षकेण सह वार्तालापं क्रियतां, स: वैकल्पिके आसने दास्यति | तदनुगुणम् आवां चिटिकापरीक्षकम् अभ्युपगतौ | अहं तस्मै समस्येयं विवृतवान् | मध्यरात्रौ सञ्जातेन सम्भ्रमेणानेन अहं त्रस्त: आसम् | अत: चिटिकापरीक्षकेण सह वार्तालापे मम स्वरोऽपि आतङ्कित: अभवत् | परीक्षकमहोदय: आवयो: तत्रासीनयो: च चिटिका: सूक्ष्मतया निरीक्षितवान्, अल्पया उपहासपूर्वक्या हास्यमुद्रया माम् उक्तवान्, "महोदय, रात्रौ 1200 वादनानन्तरं दिनाङ्क: परिवर्तते | भवत: चिटिकायां य: दिनाङ्क: अस्ति स: ह्यस्तन: दिनाङ्क:| अत: भवत: चिटिका अनुचिता | एताभ्यां (तत्रासीनाभ्यां) तु अमृतसरत: आरक्षिते आसने इमे, यत: यात्रा 1200 वादनात् प्रागेव तन्नाम ह्य: एव आरब्धा | अत: एतयो: चिटिके पूर्णतया उचिते स्त:| वस्तुत: यानारोहणात् प्रागेव अहं भवतावुभौ दृष्टवान् वेदिकायाम्, आश्चर्यान्वित: च अभवं यतोहि अद्य अम्बालात: यानेऽस्मिन् एकमपि आरक्षणं नास्ति |" (चिटिकापरीक्षकस्य कथनेन अनेन मया अवगतं यत् सा वेदिका किमर्थं निर्मनुष्या आसीत् |)
सर्वेषां पुरत: मम दोष: उपस्थापित: इत्यत: अहं काञ्चित् लज्जाम् अनुभूतवान् | सौभाग्यवशात् रेलयाने उपस्थिता: सर्वे अतीव प्रशान्तचित्ता: आसन् ("सौभाग्यवशात्" इति शब्दोल्लेखं किमर्थम् इति अग्रे ज्ञायेत एव), न कस्यापि मुखे क्रोधभाव:, उपहासभाव:, आतङ्क: च दृष्ट: | अहं परीक्षकं पृष्टवान्, "अधुना किं करणीयम् ? क्वापि रिक्तासने वर्तेते वा?" | स: साधिकारम् उक्तवान्, "महोदय, भवत: यात्रा तु अवैधा अस्ति, इत्यत: दण्ड: तु देय: एव |" अहमपि आवेशेण अनुक्षणम् उक्तवान्, "आम् | कति रुप्यकाणि आवश्यकानि ? कथयतु |" तेनोक्तं, "700 रुप्यकाणि |" झटिति मया धनस्यूतात् निष्कास्य तस्य पुरत: 700 रुप्यकात्मकं रोकधनम् उपस्थापितम् | किन्तु विनयशील: स: चिटिकापरीक्षक: उक्तवान्, "भवतु महोदय, नाहं भवत: धनहानिं कामये | प्रमाद: तु मनुष्यस्वभाव: | एवं करोतु, अत्र पार्श्वे एव बहव: रिक्ताणि आसनानि सन्ति, तेषु द्वे व्यापदयताम् | मह्यं केवलं 200 रुप्यकाणि दीयन्ताम् |" तस्य विनम्र: व्यवहार:, साहाय्यशीला वृत्ति: अतीव प्रशंसनीया |" स: पृष्टवान्, "कुत्र गमिष्यति भवतौ?" मयोत्तरितं, "देहरादूनम् |" तत्रोपस्थिता: सर्वे सहयात्रिण: हसितवन्त: | एकेनोक्तं, "महोदय, देहारादूनं गन्तुम् एतत् यानं किमर्थम् चितम् ? देहारादूनार्थम् अतीव प्रतिकूलमिदम् | इत: अग्रे अतीव शनै: शनै: चलति, सर्वत्र विलम्बेन प्राप्नोति, मध्ये हरिद्वारे एकहोरां यावत् तिष्ठति | महता विलम्बेन भवतौ प्राप्स्यत: तत्र |" सह एव स:, अन्ये च आवां संस्तुतवन्त:, "भवतौ एवं कुरुताम् , 0445 वादने सहारणपुरस्थानकम् आयास्यति | तत्र अवतीर्य बसयानसेवां स्वीकृत्य देहारादूनं गच्छताम् | बसस्थानकं, रेलस्थानकात् समीपमेव, तत: सततमेव बसयानानि गच्छन्ति देहारादूनम् |" चिटिकापरीक्षक: सहारणपुरीय: एव, तेनापि साहाय्यकभावेन उक्तम् , "अहमपि सहारणपुरे एव अवतरिष्यामि, भवतौ मया सह एव आगच्छतां, येन भवतौ चिटिकापरीक्षणार्थं कोऽपि न अवरोधयेत् |"
(अनुवर्तते)