अयम् कः अयम् कः अयम् कः । अहम् कः इति कथनेन का चिन्ता भोः । अयम् सः अयम् सः अयम् सः। अहम् सः उपनिषदः वदन्ति भोः । अतः उपनिषदः वदन्ति यत् कः अहम् सः अहम् । ईश्वरः (परमात्मा) जीवः (आत्मा) एकः एव अस्ति । दौ न स्तः । अर्थस्य अभिलाषायां अर्थविना आयुः गच्छति। जीवने ईश्वरस्य प्रेमस्य आनन्दरुपं वित्तं न अर्जितं अतः आयुः व्यर्थं गच्छति । अतः चिन्तयामि किम् उपायं करिष्यामि अनेन आनन्दं वितं प्राप्तुं शक्यते यदि कोपि मम् साहाय्यं न भवति । परन्तु चिन्तां न करोमि ।
गीतम्-2
सर्वेषां मनुष्याणां चितस्य अवस्था अति चञ्चला । चितस्य अर्थं अत्रैव मनः । मनसः निग्रहणं अति दुष्करं । किमर्थं एतत् । यदि मनुष्यः मनसः अनुसरेण किमपि कार्यं न करोति तदा मनसि कलेशं अनुभवति । अतः मनसः अनुसरेण बद्धवा इव मनुष्यः कार्यं करोति । यथा मनसः अवस्था तथा वित्तस्य अवस्था अपि । वितस्य अवस्था अपि चच्चला अस्थिरः एव । वितस्य अर्जने रक्षणे व्यये वर्धने कलेश एव भवति । अतः मनसः चिन्तनं त्यक्त्वा । वित्तस्य चिन्तनं त्यक्त्वा । सर्वैः धर्मेण दर्शितं मार्गस्य अनुसरणं करणीयम् । किमर्थं एतत् । यत् आत्मना एव स्वस्य आत्मानं उद्धारं करणीयम् । एतं विषयं चिन्तनीयम् । अतः चिन्तयामि किमर्थं आत्मना स्वयमेव स्वस्य कल्याणं करिष्यामि । परन्तु चिन्तां न करोमि ।
गीतम्-3
प्रात:काले पश्य सूर्यस्योदयं नभसि रे । सौवर्णानि सरसिजानि फुल्लितानि सरसि रे । प्रसृतोऽयं परिमलस्ते सौख्याय ज्ञातं वा । पूरय रे जीवनम् आनन्देनैव ज्ञातं वा । अरे चिन्तां मा मा । कुरु चिन्तां मा मा ।
गीतस्य अर्थं कृतं
नित्यप्रतिः प्रातःकाले सुर्यदेवता आकाशे आगच्छति । नद्यां सरसि वा कमलादि पुष्पाणि सुर्यस्य प्रकाशं प्राप्य फुल्लितानि सन्ति । एतानि पुष्पाणि गन्धं प्रसारयन्ति जगतः प्रसन्नाय । अतः एव जीवने अपि आनन्दस्य परिपुर्णाय कार्यं करणीयम् । किम् भवान् एतं अवगत्ं वा । अतः चिन्तयामि कस्यैव जीवनं आनन्देन फुल्लितानि कस्यैव ईश्वरस्य प्रेमानन्दं प्राप्स्यामि । सद्गुरुदेवस्य कृपा प्राप्य एतत् कार्यं कर्तुं शक्यते । गुरुः सुर्यदेवस्य सदृशं अहम् पुष्पं सदृशं । अतः चिन्तयामि गुरोः ज्ञानप्रकाशेन शिष्यस्य जीवने सुख-गन्धं आगच्छति । परन्तु चिन्तां न करोमि ।
गीतम् -4
नष्टं द्रव्यं लभ्यते तत् कष्टेनैव साध्यं रे । नष्टा विद्या लभ्यते रे अभ्यासेन युक्ता चेत् । नष्टारोग्यं सूपचारैर्बाढं बाढं साध्यं रे । नष्टा वेला या गता सा गतैवेवं
सारो रे । तर्हि चिन्तां मा मा । कुरु चिन्तां मा मा । एहि … रे एहि । एहि … रे एहि
गीतस्य अर्थं कृतं
जीवने यदि धनस्य हानिः अथवा धनं नष्टं भवति । तत् पुनः परिश्रमेण कलेशानुभवेन अर्जनं कर्तुं शक्यते । यदि विद्या नष्टा भवति । सा पुनः अभ्यासेन प्राप्तुं शक्यते । यदि आरोग्यं नष्टं भवति । तत् उपचारेण पुनः प्राप्तुं शक्यते । यदि समयः नष्टः भवति । सः गतवान् पुनः न आगच्छन्ति । अतः यः गतः सः गतः इति सारं । मनुष्यस्य जीवनस्य समयः अति अल्प अस्ति । आयुः गच्छति निमिषमात्रेण । मानुषं देहि पुनः कदा प्राप्स्यामि अतैव चिन्तयामि एतस्मिन् जीवने एव स्वस्य कल्याणम् कर्तव्यम् । परन्तु चिन्तां न करोमि ।
गीतम्-5
बुद्धिर्यस्य बलं च तस्य पञ्चतन्त्रं वदति रे । जीवनं तु एकवारं चार्वाकोऽयं भणति रे । अतो वदामि दु:खं त्यक्त्वा हर्षमालिङ्गन्तु रे । कोऽपि नास्ति यद्यपि तर्हि हं हं हं
हं । कोऽपि नास्ति यद्यपि तर्हि । ईशस्तेऽयम् अस्ति रे । तर्हि चिन्तां मा मा । कुरु चिन्तां मा मा ।
कृपया अवधानेन पठतु । 😊😊
जयतु सस्कृतं जयतु भारतम्
पहाडी (लेखः – 6 ) 20/12/2025
#PahadiArticles,
जयतु संस्कृतं, जयतु भारतम्! 🙏