🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    संस्कृतगीतं-कोऽयं कोऽयं कोऽहं

    Pahadi Public
    ५/२९/२०२६, १२:३०:०० अ (5/29/2026, 12:30:00 PM)
    एकं संस्कृतगीतं युटूबमध्ये वर्तते । काव्यमिदं कान्तासंमिततयोपदेशयुजे । एतस्य संस्कृतगीतस्य लेखकः डा. श्रीहरिः वीजी अस्ति । गायिका राधिका नन्दय अस्ति । एतस्य श्रोतस्य सम्पर्कं अत्र दीयते। 
    ᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶ
    https://www.youtube.com/watch?v=07UDwa7ooUI 
    ᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶᳶ
    एतस्मिन् गीते शास्त्रस्य ज्ञानस्य विषये गीतरुपेण चर्चा कृता । एतस्य गीतस्य उपरि एकं लेखं भावरुपेण अद्योलिखितम् । कृपया अवधानेन पठतु ।  

    गीतम्-1
    कोऽयं कोऽयं कोऽहं कोऽहम् इत्येवं का चिन्ता रे । सोऽयं सोऽयं सोऽहं सोऽहम् उपनिषदो वदन्ति रे। अर्थम् अर्थं चयनेन निरर्थं जातायुष्यं रे ।  प्रेमानन्दो वित्तं नैव हा धिग् आयुर्व्यर्थं रे । इति चिन्तां मा मा । कुरु चिन्तां मा मा ।

    गीतस्य अर्थं कृतं
    अयम् कः अयम् कः अयम् कः । अहम् कः इति कथनेन का चिन्ता भोः । अयम् सः अयम् सः अयम् सः। अहम् सः उपनिषदः वदन्ति भोः । अतः उपनिषदः वदन्ति यत् कः अहम् सः अहम् । ईश्वरः (परमात्मा) जीवः (आत्मा) एकः एव अस्ति । दौ न स्तः । अर्थस्य अभिलाषायां अर्थविना आयुः गच्छति। जीवने ईश्वरस्य प्रेमस्य आनन्दरुपं वित्तं न अर्जितं अतः आयुः व्यर्थं गच्छति । अतः चिन्तयामि किम् उपायं करिष्यामि अनेन आनन्दं वितं प्राप्तुं शक्यते यदि कोपि मम् साहाय्यं न भवति । परन्तु चिन्तां न करोमि ।        

    गीतम्-2
    दुर्निग्रहं चञ्चलं च चित्तमस्ति सर्वेषाम् । अस्थिरं च चञ्चलं च वित्तमस्ति सर्वेषाम् । चित्तं परिहर वित्तं परिहर धर्मम् अनुसर सर्वेषाम् । आत्मनैवोद्धरेदात्मानमेवं चिन्त्यताम् तर्हि चिन्तां मा मा । कुरु चिन्तां मा मा । 

    गीतस्य अर्थं कृतं
    सर्वेषां मनुष्याणां चितस्य अवस्था अति चञ्चला । चितस्य अर्थं अत्रैव मनः । मनसः निग्रहणं अति दुष्करं । किमर्थं एतत् । यदि मनुष्यः मनसः अनुसरेण किमपि कार्यं न करोति तदा मनसि कलेशं अनुभवति । अतः मनसः अनुसरेण बद्धवा इव मनुष्यः कार्यं करोति । यथा मनसः अवस्था तथा वित्तस्य अवस्था अपि । वितस्य अवस्था अपि चच्चला अस्थिरः एव । वितस्य अर्जने रक्षणे व्यये वर्धने कलेश एव भवति । अतः मनसः चिन्तनं त्यक्त्वा । वित्तस्य चिन्तनं त्यक्त्वा । सर्वैः धर्मेण दर्शितं मार्गस्य अनुसरणं करणीयम् । किमर्थं एतत् । यत् आत्मना एव स्वस्य आत्मानं उद्धारं करणीयम् । एतं विषयं चिन्तनीयम् । अतः चिन्तयामि किमर्थं आत्मना स्वयमेव स्वस्य कल्याणं करिष्यामि । परन्तु चिन्तां न करोमि ।

    गीतम्-3
    प्रात:काले पश्य सूर्यस्योदयं नभसि रे । सौवर्णानि सरसिजानि फुल्लितानि सरसि रे । प्रसृतोऽयं परिमलस्ते सौख्याय ज्ञातं वा । पूरय रे जीवनम् आनन्देनैव ज्ञातं वा । अरे चिन्तां मा मा । कुरु चिन्तां मा मा ।

    गीतस्य अर्थं कृतं
    नित्यप्रतिः प्रातःकाले सुर्यदेवता आकाशे आगच्छति । नद्यां सरसि वा कमलादि पुष्पाणि सुर्यस्य प्रकाशं प्राप्य फुल्लितानि सन्ति । एतानि पुष्पाणि गन्धं प्रसारयन्ति जगतः प्रसन्नाय । अतः एव जीवने अपि आनन्दस्य परिपुर्णाय कार्यं करणीयम् । किम् भवान् एतं अवगत्ं वा ।  अतः चिन्तयामि कस्यैव जीवनं आनन्देन फुल्लितानि कस्यैव ईश्वरस्य प्रेमानन्दं प्राप्स्यामि । सद्गुरुदेवस्य कृपा प्राप्य एतत् कार्यं कर्तुं शक्यते । गुरुः सुर्यदेवस्य सदृशं अहम् पुष्पं सदृशं । अतः चिन्तयामि गुरोः ज्ञानप्रकाशेन शिष्यस्य जीवने सुख-गन्धं आगच्छति । परन्तु चिन्तां न करोमि ।

    गीतम् -4
    नष्टं द्रव्यं लभ्यते तत् कष्टेनैव साध्यं रे । नष्टा विद्या लभ्यते रे अभ्यासेन युक्ता चेत् । नष्टारोग्यं सूपचारैर्बाढं बाढं साध्यं रे । नष्टा वेला या गता सा गतैवेवं
    सारो रे । तर्हि चिन्तां मा मा । कुरु चिन्तां मा मा । एहि … रे एहि । एहि … रे एहि

    गीतस्य अर्थं कृतं
    जीवने यदि धनस्य हानिः अथवा धनं नष्टं भवति । तत् पुनः परिश्रमेण कलेशानुभवेन अर्जनं कर्तुं शक्यते । यदि विद्या नष्टा भवति । सा पुनः अभ्यासेन प्राप्तुं शक्यते । यदि आरोग्यं नष्टं भवति । तत् उपचारेण पुनः प्राप्तुं शक्यते । यदि समयः नष्टः भवति । सः गतवान् पुनः न आगच्छन्ति । अतः यः गतः सः गतः इति सारं ।  मनुष्यस्य जीवनस्य समयः अति अल्प अस्ति । आयुः गच्छति निमिषमात्रेण । मानुषं देहि पुनः कदा प्राप्स्यामि अतैव चिन्तयामि एतस्मिन् जीवने एव स्वस्य कल्याणम् कर्तव्यम् । परन्तु चिन्तां न करोमि ।

    गीतम्-5
    बुद्धिर्यस्य बलं च तस्य पञ्चतन्त्रं वदति रे । जीवनं तु एकवारं चार्वाकोऽयं भणति रे । अतो वदामि दु:खं त्यक्त्वा हर्षमालिङ्गन्तु रे । कोऽपि नास्ति यद्यपि तर्हि हं हं हं
    हं । कोऽपि नास्ति यद्यपि तर्हि  । ईशस्तेऽयम् अस्ति रे । तर्हि चिन्तां मा मा । कुरु चिन्तां मा मा । 

    गीतस्य अर्थं कृतं
    पञ्चतन्त्रस्य कथायां एकः निष्कर्षः अस्ति यत् यस्य मनसि बुद्धिः अस्ति तस्मिन् एव् बलं अस्ति । अतः बुद्धिः बलेव बलं शरीरस्य बलं किमपि नास्ति । चार्वाकः अकथत् यत् आत्मा नास्ति केवलं शरीरेव अस्ति पुनः एतस्य जन्मं न भवति । अतः वदामि जीवनस्य दुखानां चिन्तनं त्यक्तवा आनन्दस्य आलिङ्गनं करोतु । जीवने कोऽपि नास्ति यथा धनं बुद्धिः बलं आरोग्यशरीरादि तथापि ईश्वरः सदैवः त्व सहेव अस्ति । अतः चिन्तयामि कथं ईश्वरस्य प्रेमानन्दं प्राप्स्यामि । परन्तु चिन्तां न करोमि ।

    कृपया अवधानेन पठतु । 😊😊
    जयतु सस्कृतं जयतु भारतम्
    पहाडी (लेखः – 6 ) 20/12/2025
    #PahadiArticles, 
    Comment
    Views ३.९ सह.
    Delete
    1 comments
    Profile pic
    अक्षयःPublic
    ५/२९/२०२६, २:०९:२३ अ (5/29/2026, 2:09:23 PM)
    अतीव सुन्दरः लेखः! एतस्य गीतस्य भावार्थं पठित्वा मम मनसि महदानन्दः जातः। भवतः सरला भाषा, गम्भीरा चिन्तना च अतीव श्लाघनीया अस्ति। एवमेव लिखतु।

    जयतु संस्कृतं, जयतु भारतम्! 🙏
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓