🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    Vidhya sagar Public
    ५/३०/२०२६, १०:५५:५० पू (5/30/2026, 10:55:50 AM)
    अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत-
    एकदा शरीरस्य सर्वाणि इन्द्रियाणि-हस्ती, पादौ, मुखं, नासिका, कर्णों इत्यादीनि मिलित्वा अचिन्तयन्- "वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उददं सर्वं स्वीकरोति, स्वयं किमपि कार्य न करोति। अद्यप्रभृति वयमपि कार्य न करिष्यामः"। एवं चिन्तयित्वा सर्वाणि अंगानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणः अपि न प्रविशत्। एवं द्वे दिने व्यतीते जाते। शनैः शनैः सर्वाणि अंगानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन्- "अहो ! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः"। नूनं संहतिः एव कार्यसाधिका।
    अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्)
    (i) शनैः शनैः सर्वाणि अंगानि कीदृशानि अभवन् ? शिथिलानि
    (ii) कार्यसाधिका का भवति ? संहितः
    (iii) भुक्तस्य अन्नस्य पाचनं किम् अंगं करोति ? उदरम्
    आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
    (i) पादौ कीदृशौ भूत्वा अतिष्ठताम् ?
    उत्तर:- पादौ स्थिरौ भूत्वा अतिष्ठताम्।
    (ii) कानि अंगानि मिलित्वा कार्यं त्यक्तवन्तः?
    उत्तर:- शरीरस्य सर्वाणि इन्द्रियाणि-हस्ती, पादौ, मुखं, नासिका, कर्णों इत्यादीनि मिलित्वा कार्यं त्यक्तवन्तः।
    (iii) कस्य कृपया अंगानि शक्तियुक्तानि भवन्ति?
    उत्तर:- उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति।
    इ. यथानिर्देशम् उत्तरत-
    (i) 'करिष्यामः' इति क्रियापदस्य कर्तृपदं किम् ?
    (क) उदर (ख) वयम् (ग) अहम् (घ) अ‌ग्नि
    (ii) 'गात्रस्य' इति पदस्य पयार्यः कः?
    (क) शरीरस्य (ख) सर्वाणि (ग) भुक्तस्य (घ) अन्नस्य
    (iii) ‘भुक्तस्य’ इति विशेषणस्य विशेष्य पदं किम् गद्यांशे प्रयुक्मस्ति?
    (क) उदरस्य (ख) अन्नस्य (ग) शरीरस्य (घ) अस्य
    (iv) ‘चलौ’ इति पदस्थ किं विपर्यायदम् अत्र प्रयुक्तम् ?
    (क) हस्तौ (ख) कणौ (ग) निश्चलौ (घ) पादौ
    Comment
    Views ३.३ सह.
    Delete
    3 comments
    Profile pic
    Prema ShreePublic
    ५/३०/२०२६, ११:१२:२५ पू (5/30/2026, 11:12:25 AM)
    उत्तमः पाठः। संहतिः एव कार्यसाधिका।
    उत्तर
    1.वयम्
    2.शरीरस्य
    3.अन्नस्य
    4.निश्चलौ
    DislikeCommentDelete
    Profile pic
    चञ्चलःPublic
    ५/३०/२०२६, १२:३५:०० अ (5/30/2026, 12:35:00 PM)
    वयम्, शरीरस्य, अन्नस्य, निश्चलौ
    DislikeCommentDelete
    Profile pic
    KajalPublic
    ५/३०/२०२६, १२:४९:२८ अ (5/30/2026, 12:49:28 PM)
    वयम्, शरीरस्य, अन्नस्य, निश्चलौ
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓