कथाशीर्षक: - नवोढानां रोमाञ्चकी यात्रालेखक: - चिन्मय: फडके
(Part 3 / 3, अन्तिमः भागः)
#SanskritStory #SanskritArticle
प्रथमः भागः इत्यत्र - https://sanskritkalp.com/post/pc_4su/kathashirashaka
द्वितीयः भागः इत्यत्र -
https://sanskritkalp.com/post/pc_4up/kathashirashaka
सर्वेषां परामर्शम् अनुसरन्तौ आवाम् उष:काले 0345 वादने सहारणपुरं प्राप्तवतौ | चिटिकापरीक्षकस्य सहकार्येण विनावरोधं स्थानकात् बहि: सुरक्षिततया आगतौ | महोदयेन अङ्गुलीनिर्देशेण बसस्थानकं कुत्र अस्ति इति दर्शितम् | "सहारणपुरम्" इति नाम मया तु श्रुतपूर्वमासीत् , किन्तु मम पत्न्या: कृते तु नाम अपि नूतनम् " एष: क्षण: कश्चित् भयावह:, कश्चित् लज्जास्पद:, कश्चित् विनोदात्मक: च आसीत् | सामान्यत: नवोढदम्पत्यो: मनोहारिषु स्थलेषु विहारं तु अतीव प्रियमस्ति | विवाहात् पूर्वं "चण्डीगढे आरप्स्यमाणम् आवयो: वैवाहिकजीवनं कथं भवेत्, हिमाच्छादितप्रदेशाणां सान्निध्ये, पर्यटनस्थलानां वैपुल्ये, अमृतसरं, धर्मशाला, हरिद्वारं, हृषिकेश:, केदारनाथ: एतै: पवित्रप्रदेशै: समावृत्तायां रमणीयायां चण्डीगढनगर्यां कियत् स्वप्नमयं, प्रणयाकूलं च जीवनं भवेत्" इति ननु स्वप्नलोकस्य भावचित्रम् अहं सततं पत्न्या: पुरत: चित्रयामि स्म | किन्तु अहो वैचित्र्यं, दृश्यतां कीदृशी स्थिति: आपन्ना, स्वप्नलोकं विस्म्रियताम् , अत्र नवपरिणीताभ्याम् आवाभ्याम् एकस्मिन् अज्ञातनगरे प्रतिकूलसमये (विशेषत: महिलानां कृते एतस्मिन् समये अधिका सावधानता विधेया अस्ति) मध्यरात्रौ नीरवायां भयङ्कर्यां शान्ततायां बसयानम् अन्वेषणीयम् आपतितं, तदपि आरक्षणसमये मया कृतस्य दोषस्य कारणात् | कथञ्चिदपि आवामुभौ यानपेटिकां कर्षन्तौ पादाभ्यां गमनार्हे अन्तरे स्थितं बसयानस्थानकं प्राप्तवतौ | तत्र लोकसञ्चार: आसीत् , यात्रिण्य: महिला: अपि आसन् | झटिति एव बसयानं प्राप्तं, प्राय: 0445 वादने यानं प्रस्थितं देहरादूनं प्रति | बसयाने उपविश्य अखिल: भारभाव: न्यूनीभूत: | देहरादूनं प्राप्य मसुरीं गन्तुं तु झटिति एव जीपयानं लब्धम् | अन्ते च आवां 0930 वादने प्रभाते मसुरीस्थम् आवासं प्राप्तवतौ | (यदि आवां रेलयानेन अखिलम् प्रवासम् अकरिष्याव, तर्हि देहारादूनस्थानकमेव 1000 वादने प्राप्याव, तदनन्तरं मसुरीम् तु 1130 वादनात् पूर्वं तु नैव आगमिष्याव | अत: कष्टकर: प्रवास: चेदपि आवां तु नियोजितात् समयात् पूर्वमेव आगतौ मसुरीम् |
अनन्तरं किञ्चित् विश्रामं कृत्वा, श्रान्तिम् उपशाम्य शनिवासरे, रविवासरे च मसुरीम् पर्याटितवतौ | सुन्दर्यां, रमणीयायां, मनोहारिण्यां मसुरीनगर्यां मसुरीसरोवर:, नगरपालिकोद्यानं, केम्प्टि: जलपात:, ज्वालाजीमन्दिर:, माल् मार्ग:, इत्यादिषु अनेकेषु स्थलेषु आवां विहरितवतौ (एतेषां स्थलानां विषये अत्र विस्तरेण न लिखामि, यतोहि लेखस्य हेतु: यात्रानुभवकथनम् अस्ति |) मसुरीनगरी मया दृष्टेषु पर्वतीयक्षेत्रेषु सर्वोत्कृष्ट: अभासत | तत्र महान् सम्मर्द: नास्ति, किन्तु भयावहा, नीरवा, भीषणा शान्ति: अपि नास्ति | रात्रौ अपि साधारण: लोकसञ्चार: वर्तते, अनेकानि आपणानि अपि उद्घाटितानि दृश्यन्ते | तत्र (अन्येषु पर्वतीयप्रदेशेषु सायङ्काले 6 वादनानन्तरं लोकसञ्चार: ननु स्थगित: भवति, आपणानि, विपण्ण्य: च पिहिता: भवन्ति, अतीव जामिता भासते इति मे अनुभव: |) अधुना तु 12 वर्षाणि अतीतानि, तथापि अहं, पत्नी च मसुर्यानुभवं स्मारं स्मारं सुखिनौ भवाव: |
अस्तु | तर्हि रोमाञ्चकात्, दु:साहसोपेतात् प्रयाणात् अस्मात् अधीता: जीवनाध्याया: अधीता: एतावता :-
1. प्रयाणनियोजनसमये केवलं आन्तरजाले न विश्वसनीयं, परिचितानां, पूर्वानुभविनां च परामर्श: अपि स्वीकरणीय: | आवाभ्याम् अनन्तरं ज्ञातं यत् उत्तराखण्डस्य पर्यटनविकासकेन्द्रस्य कार्यालयमेकं चण्डीगढे एव सेक्टर् 17 मध्ये अस्ति | तत्रैव गत्वा यात्रानियोजनम् उचितम् | लोकप्रियाणां पर्यटनस्थलानां कृते एतादृग्भ्य: कार्यालयेभ्य: सविस्तरी सूचना, सम्यक् मार्गदर्शनं च लभते |
2. आरक्षणं पूर्णावधानेन करणीयं, येन दिनाङ्कस्य , समयस्य च सम्भ्रम: न भवति | मध्यरात्रौ प्रयाणम् अस्ति चेत् तु विशेषम् अवधानम् आवहनीयम् |
3. अज्ञातै: सह संवादसमये रव: नियन्त्रणीय: | आवयो: तु सौभाग्यम् आसीत् यत् रेलयाने आवयो: दोष: अस्ति चेदपि न केनापि कलह: कृत:, प्रत्युत सर्वे अतीव साहाय्यशीला: | चिटिकापरीक्षक:, यम् अहं उद्धतरूपेण उत्तरितवान्, स: अपि प्रशान्तचित्त:, न जाने अन्य: कोऽपि कथं व्यवाहरिष्यत् |
4. अज्ञातस्थलेषु प्रतिकूलसमये न अटनीयम् |
(समाप्तम्)