🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube

    न कश्चित् कस्यचित्मित्रं न कश्चित् कस्यचिद्रिपुः। "Could you please tell me the next line of this shloka, identify any spelling errors in it, and explain its meaning along with a detailed interpretation

    Anjan Nag Public
    ६/१/२०२६, ८:३८:२१ पू (6/1/2026, 8:38:21 AM)
    न कश्चित् कस्यचित्मित्रं न कश्चित् कस्यचिद्रिपुः। "Could you please tell me the next line of this shloka, identify any spelling errors in it, and explain its meaning along with a detailed interpretation
    Comment
    Views २.१ सह.
    Delete
    2 comments
    Profile pic
    Dr. Rahul MaityPublic
    ६/१/२०२६, ९:२१:१४ पू (6/1/2026, 9:21:14 AM)
    न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
    व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥

    This verse beautifully captures the essence of human relationships. It reminds us that relationships are not predetermined. How we speak, act, and behave with others dictates whether they will stand by us as friends or stand against us as adversaries. It places the power and responsibility of building good relationships entirely on our own conduct.
    DislikeCommentDelete
    Profile pic
    सुमन्तमण्डलःPublic
    ६/१/२०२६, १२:२६:०७ अ (6/1/2026, 12:26:07 PM)
    आदौ भवते धन्यवादाः निवेद्यन्ते, यतो हि भवान् अत्र चर्चायाः अवसरं प्रस्तौति।

    वस्तुतः श्लोकस्यास्य द्वे पाठान्तरे (संस्करणे) स्तः। अधः द्वयोः अपि श्लोकयोः व्याख्या एव प्रदीयते —

    न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
    व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ।।

    पदच्छेदः - न, कश्चित्, कस्यचित्, मित्रम्, न, कश्चित्, कस्यचित्, रिपुः । व्यवहारेण, जायन्ते, मित्राणि, रिपवः, तथा ।

    अन्वयः - कश्चित् कस्यचित् मित्रं न (अस्ति), कश्चित् कस्यचित् रिपुः न (अस्ति) । व्यवहारेण (एव) मित्राणि तथा रिपवः जायन्ते ।

    संस्कृत-व्याख्या - अस्मिन् संसारे जन्मना एव कोऽपि जनः कस्यापि स्वाभाविकं मित्रं न भवति, न च कोऽपि कस्यापि स्वाभाविकः शत्रुः भवति । मनुष्यस्य आचरणेन, मधुरेण भाषणेन, सदाचारेण, परस्परं व्यवहारक्रमेण एव मित्राणि शत्रवः च उत्पद्यन्ते । यः परैः सह उत्तमं व्यवहारं करोति, सः मित्राणि प्राप्नोति; यस्य व्यवहारः कटुः दोषयुक्तः च भवति, तस्य शत्रवः भवन्ति । अतः मानवसम्बन्धेषु व्यवहारः एव सर्वप्रधानकारणम् अस्ति ।

    अनन्तरं तत्र -

    न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
    अर्थतस्तु निबध्यन्ते, मित्राणि रिपवस्तथा ।।

    पदच्छेदः - न, कश्चित्, कस्यचित्, मित्रम्, न, कश्चित्, कस्यचित्, रिपुः । अर्थतः, तु, निबध्यते, मित्राणि, रिपवः, तथा ।
    अन्वयः - कश्चित् कस्यचित् मित्रं न (अस्ति), कश्चित् कस्यचित् रिपुः न (अस्ति) । अर्थतः तु मित्राणि तथा रिपवः निबध्यन्ते ।

    संस्कृत-व्याख्या - अस्य श्लोकस्य द्वितीये पाठान्तरे व्यावहारिकं सत्यं प्रकटीकृतम् अस्ति । अत्र कथ्यते यत् केवलं स्वार्थवशात्, प्रयोजनवशात्, धनेन अथवा लाभहानि-सम्बन्धेन एव संसारे मैत्री शत्रुता च दृढा भवति (निबध्यते) । यदा कस्यापि जनस्य अन्येन जनेन सह किमपि प्रयोजनं (कार्यम्) भवति, तदा तत्र मित्रता उत्पद्यते । यदा स्वार्थस्य विरोधः भवति, तदा तत्र शत्रुता जायते । अस्मिन् संसारे सर्वे सम्बन्धाः अर्थमूलकाः (प्रयोजनमूलकाः) एव सन्ति ।
    DislikeCommentDelete
    1 replies
    Profile pic
    Anjan NagPublic
    ६/१/२०२६, १०:३३:२१ अ (6/1/2026, 10:33:21 PM)
    उत्तमम् उत्तमम्। भवन्तं धन्यवादः।
    DislikeCommentDelete
    लेखं लिखतु (Write a post)... ✏️

    यहाँ जो कुछ भी आप चाहें संस्कृत या विभिन्न भाषाओं में लेख​/पोस्ट करें। कृपया संस्कृत को प्राथमिक भाषा रखें ताकि दूसरों को सीखने और अभ्यास करने में सहयोग हो सके। आप प्रश्न पूछ सकते हैं, अपना ज्ञान साझा कर सकते हैं, या बस नमस्ते कह सकते हैं। कृपया संस्कृत के लिए देवनागरी में लिखें।

    Post anything you want here in Samskrit or multiple languages. Please keep Samskrit as the primary language so that others can learn and practice. You can ask questions, share your knowledge, or just say नमस्ते. Please write in Devanagari for Sanskrit.

    ...↓