षड् दोषाः पुरुषेणेह हातव्याः भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
उद्योगपर्व ३३/७८
जीवने औन्नत्यं प्राप्तुं यः इच्छति तेन एते षड् दोषाः परित्यक्तव्याः – निद्रा, तन्द्रा (श्रान्तता), भीतिः, कोपः, आलस्यं, दिर्घसूत्रता (करणीयस्य कार्यस्य अग्रे सारणम्) च। एते दुर्गुणाः यदि स्युः तर्हि तादृशः निरन्तरं प्रयासं कर्तुं न अर्हति। परिश्रमेण विना फलप्राप्तिः नैव शक्यम्।