जानीमहे---
कृषिः शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते। एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता। लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति। अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति। कृषिः एका प्राथमिकी क्रिया अस्ति। सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति। विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति।