दधि मधुरं मधु मधुरं द्राक्षा मधुरा सितापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥
तात्पर्यम्
दधि मधुरं भवति, मधु भवति, द्राक्षा, सितापि मधुरा एव । यस्य मनः यत्र आकृष्टं भवति तस्य तदेव मधुरं भवति ॥
आङ्ग्लार्थः
Yoghurt is sweet. So are honey, grapes and nectar. But a thing is sweet to him to which his/her mind is attached. Fair is not fair, but that which pleaseth.