चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥
अत्र देव्याः काल्याः रूपं वर्ण्यते। नारायणी इति तस्याः नामान्तरम्। अन्यानि पदानि तस्याः विशेषणत्वेन प्रयुक्तानि सन्ति।
दंष्ट्राकरालवदना - दंष्ट्रा इति दन्तविशेषः, यैः वदनं करालः दन्तुरः दृश्यते, अर्थात् देव्याः दन्ताः अत्यन्तम् उन्नताः येन सा दन्तुरा, भयङ्करी दृश्यते।
शिरोमालाविभूषणा - शिरसां माला शिरोमाला, सा एव भूषणं यस्याः।
चामुण्डा - चामुण्डेति देव्याः प्रसिद्धं नाम।
मुण्डमथना - मुण्डान् मथ्नातीति मुण्डमथना।
एतादृश्यै देव्यै नमः। तां देवीं नमामि इत्यर्थः।
सर्वेभ्यः दीपावल्याः शुभाशयाः। दीपावल्याम् आभारतं यथा दीपान्वितं भवति, तथैव बङ्गप्रदेशादिषु मातुः काल्याः अर्चनं भवति। सा अपि दीपैः अन्विता भवतीत्यतः तस्याः अपरं नाम दीपान्विता अपि। सर्वेभ्यः पुनः सादरं शुभाकामनाः।