गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः||
सर्वैः शास्त्रान्तरैः प्रतिपाद्यः विषयः एकस्मिन्नेव शास्त्रे पठिते यदि विज्ञायते तर्हि कीदृशः आनन्दः स्यात्। सः एव आनन्दः भागवतस्य अध्ययने। मया पूर्वं नाधीतं परन्तु इदानीम् आग्रहः वर्धते। कदाचित् अवश्यम् आमूलं भागवतं पठिष्ये।