संस्कृत रचना - अतिशैत्यं कस्मिन् मासे भवति। (Samskrit text - अतिशैत्यं कस्मिन् मासे भवति।)
अतिशैत्यं कस्मिन् मासे भवति।
कश्चन निर्जनः अरण्यमार्गः। तत्र निवसति स्म कश्चन प्रेतः। कदाचित् तेन मार्गेण गच्छन्तं यात्रिकं गृहीत्वा सः अपृच्छत् -"कस्मिन् मासे अधिकं शैत्यं भवति? यात्रिकः स्वस्य अनुभवस्य आधारेण अवदत् "माघमासे अधिकं शैत्यं भवति" इति। "न, भवतः उत्तरम् अयुक्तम्" इति उक्त्वा सः प्रेतः तं यात्रिकम् अहनत्। पुनः कदाचित् तेन मार्गेण अपरः यात्रिकः आगतः। प्रेतः तमपि गृहीत्वा अपृच्छत् "रे पथिक कस्मिन् मासे अधिकं शैत्यं भवति?" तेन पथिकेन उत्तरितम् - "पौषमासे अधिकं शैत्यं भवति" इति। "न, भवतः उत्तरम् अयुक्तम्" इति उक्त्त्वा सः प्रेतः तमपि यात्रिकं हतवान्। इत्थं तेन मार्गेण गच्छतः सर्वान् अपि गृहीत्वा एनमेव प्रश्नं करोति स्म सः प्रेतः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...