आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
संस्कृत रचना - काकः चलति हंसगत्या (Samskrit text - काकः चलति हंसगत्या)

काकः चलति हंसगत्या

कदाचित् गर्विष्ठः काकः हंसेन सह स्पर्धार्थं सन्नद्धः जातः। हंसः काकश्च उड्डयनम् आरब्धवन्तौ। काकः स्वसामर्थस्य कौशलस्य प्रदर्शनाय भिन्नप्रकारेण उड्डयनम् अकरोत्। हंसः तु समानगत्या उड्डयते स्म। ततः हंसः सागराभिमुखः जातः। किञ्चित्कालाभ्यन्तरे अनभ्यासेन उड्डयनेन काकस्य शरीरे स्वेदः जातः। परन्तु परितः सम्पूर्णतया जलराशिः। तस्मात् भीतः काकः मम मरणं निश्चितम् इति विचिन्त्य प्राणान् रक्षितुं हंसं प्रार्थितवान्। करुणालुः हंसः काकं स्वस्कन्धयोः उपरि संस्थाप्य प्रत्यागच्छत्। ततः आरभ्यः काकः कदापि अहङ्कारं प्रादर्शयत्।


विचाराः (Your Thoughts)

स्वविचारान् लिखतु (Write your thoughts below)

Loading comment access...

No comments yet. Start the conversation.