अपतत्
कः अपतत्?
सः व्याघ्रः अपतत्।
कीदृशः व्याघ्रः अपतत्?
क्लान्तः व्याघ्रः अपतत्।
पुनः कीदृशः सः व्याघ्रः अपतत्?
बद्धः क्लान्तः च व्याघ्रः अपतत्।
कुत्र बद्धः क्लान्तः व्याघ्रः अपतत्?
जाले बद्धः क्लान्तः व्याघ्रः अपतत्।
जाले बद्धः सः व्याघ्रः कीदृशः भूत्वा अपतत्?
जाले बद्धः सः व्याघ्रः असहायः भूत्वा अपतत्।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...