कस्मिन् - संवादः
अनुजा कस्मिन् विश्वविद्यालये पाठयति?
सा नालन्दाविश्वविद्यालये पाठयति।
विदिशानगरी कस्मिन् प्रदेशे स्थिता विद्यते?
विदिशानगरी मध्यप्रदेशे स्थिता विद्यते।
देवेशः कस्मिन् विषये पृच्छति?
देवेशः वर्णानां विषये पृच्छति।
ध्वजस्य स्वीकरणं कस्मिन् वर्षे जातम्?
ध्वजस्य स्वीकरणं सप्तचत्वारिंशदधिक-एकोनविंशतिशततमे (1947-तमे) वर्षे जातम्।
सप्तचत्वारिंशदधिक-एकोनविंशतिशततमे (1947-तमे) वर्षे कस्मिन् मासे जातम् ?
सप्तचत्वारिंशदधिक-एकोनविंशतिशततमे (1947-तमे) वर्षे जुलाई-मासे जातम्।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...