आरम्भः लेखाः क्रीडाः अन्वेषणम् ई-पुस्तकानि चलच्चित्राणि
0 सूचनाः
सन्देशाः
100%
profile logo

सुमन्तमण्डलः

@sanskrit_sumanta
मम विषये (About)
अहं सुमन्तः मण्डलः। विद्यायाः साधनमेव मम जीवनस्य मूलं मन्ये। संस्कृतभाषा मम हृदयस्य नादः, यस्य माध्यमेन अहं प्राचीनज्ञानस्य रत्नानि अन्वेष्टुमिच्छामि। अध्ययनाध्यापनयोः समन्वयेन अहं स्वात्मनः विकासं साधयामि। मम अभिलाषा — ज्ञानं केवलं स्वार्थाय न, अपितु समाजस्य हिताय उपयुज्येत।
देशः (Country)
भारतः
व्यवसायः (Profession)
SME in Sanskrit
शिक्षा (Qualification)
Master’s Degree
रुचयः (Hobbies)
पठनम्, लेखनम्, संस्कृतसाहित्यस्य अध्ययनम्, भाषाशास्त्रगवेषणा, संगीतश्रवणम्, अध्यापनाभ्यासः, नूतनकौशलाधिगमः
कौशलानि (Skills)
संवादकौशलम्, अध्यापनदक्षता, लेखनसमर्थ्यता, संशोधनकौशलम्, सम्पादनदक्षता, समयव्यवस्थापनम्, दलीयकार्यदक्षता, सङ्गणकतन्त्रज्ञानम्, संस्कृतटङ्कणकौशलम्, शीघ्रशिक्षणदक्षता
अनुभवः (Experience)
संस्कृतभाषायाः अध्ययनं मम हृदयस्य निष्ठा अस्ति। नैसर्गिकभाषाप्रौद्योगिकीक्षेत्रे मम कार्यानुभवः अस्ति। अहं कर्नाटकसंस्कृतविश्वविद्यालये (KSU) National Language Translation Mission परियोजने इण्टर्न्-रूपेण कार्यं कृतवान्। ततः पश्चात् अहं भारतीयभाषासंस्थाने (CIIL), मयसूरु इत्यत्र अपि स्वीयं योगदानं दत्तवान्। एते अनुभवाः मम चिन्तनदृष्टिं विकसितवन्तः, यत्र परम्परागतसंस्कृतविद्या आधुनिकप्रौद्योगिक्याः सह संयोजिता जाता। इदानीं संस्कृत-कल्पे SME - इत्यस्मिन् नियुक्तोऽस्मि।