🏠 Home community icon Community 🔍 Search 📚 eBooks
notification icon 0 Notifications
Notifications
    💬 Messaging WhatsApp icon Group YouTube icon YouTube
    संस्कृत रचना - अपूर्वः विजयः (Samskrit text - अपूर्वः विजयः)

    अपूर्वः विजयः

    कदाचित् कश्चन याचकः युधिष्ठरं नमस्कृत्य शतनाणकानि याचितवान्। 'श्वः दास्यामि' इत्युक्त्वा तं प्रेषितवान् युधिष्ठिरः। एतत् दृष्टवता स्मितहासेन भीमसेनेन विजयघण्टा वादिता। विजयस्य कारणं किम् इति यदा युधिष्ठिरः अपृच्छत् तदा भीमसेनः अवदत् 'श्वः दास्यामि इत्युक्ते अस्य अर्थः यत् श्वः पर्यन्तं भवान् निश्चयेन जीविष्यति इति। मृत्योः उपरि एव दिनपर्यन्तकः विजयः किं सामान्यः?’ इति। युधिष्ठिरः भीमेन उक्तस्य तात्पर्यम् अवगत्य लज्जितः सन् गच्छन्तं तं याचकं पुनः आहूय तस्मै शतनाणकानि दत्तवान्।
    

    विचाराः (Your Thoughts)

    स्वविचारान् लिखतु (Write your thoughts below)

    Loading comment access...

    No comments yet. Start the conversation.