संस्कृत रचना - वणिजः कृपणता (Samskrit text - वणिजः कृपणता)
वणिजः कृपणता
कस्यचन कृपणस्य वणिजः धनस्यूतः च्युतः जातः। तस्मिन् चतुस्सहस्ररूप्यकाणि आसन्। ग्रामप्रमुखस्य द्वारा घोषणं कारितवान् यत् यः तं धनस्यूतं यच्छति तस्मै चतुश्शतं रूप्यकाणि ददामि इति। कयाचित् वृद्धया सः धनस्यूतः प्राप्तः। ग्रामप्रमुखं गत्वा दत्तवती। कृपणः वणिक् वृद्धायै चतुश्शतं रूप्यकाणि दातुं नेच्छत्। सः अवदत् 'अस्मिन् धनस्यूते चतुश्शताधिकचतुस्सहस्रं रूप्यकाणि आसन्। एषा वृद्धा पूर्वमेव चतुश्शतं रूप्यकाणि स्वीकृतवती अस्ति' इति। ग्रामप्रमुखेन ज्ञातं यत् एषः असत्यं वदन् अस्ति इति। 'भवता केवलं चतुस्सहस्ररूप्यकाणि एव आसन् इति उक्तमासीत् अतः एषः भवतः स्यूतः नास्ति' इत्युक्त्वा तं धनस्यूतं स्वीकृतवान्।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...