संस्कृत रचना - अटल बिहारी वाजपेयी (Samskrit text - अटल बिहारी वाजपेयी)
अटल बिहारी वाजपेयी
अटलबिहारी-वाजपेयीमहोदयः भारतीयः राजनीतिज्ञः आसीत्। सः भारतस्य दशमः प्रधानमन्त्री आसीत्। कवि-राजनेता अटलबिहारी वाजपेयी शराश्विनग्रहभास्करमिते ग्वालियरनगरे श्रीमती कृष्णादेवी-कृष्णबिहारी वाजपेयी महाभागयोः पुत्रत्वेन जन्म अलभत। जनतापार्टीसञ्चालिते राज्यशासने सः परराष्ट्रमन्त्री आसीत्। भारतस्य संसदि लोकसभायां सः उत्तमः संसत्पटुः इति सम्मानितः। १९९६ तमे वर्षे १३ दिनानि, १९९८ तमे वर्षे १३ मासान् यावत्, पुनः १९९९ तः - २००४ तमवर्षपर्यन्तं पञ्च वर्षाणि यावच्च सः भारतवर्षस्य प्रधानमन्त्रिपदम् अलङ्कृतवान्। श्रीवाजपेयीमहोदयः १० वारं लोकसभायां निर्वाचितः द्विवारं च राज्यसभायाम्। अयं स्वयमेव एकः विक्रमः । २००९ पर्यन्तं सः लोकसभासदस्यरूपेण कार्यरतः आसीत्। तदनन्तरं कदाचित् अस्वास्थ्यकारणात् सक्रियराजकारणात् निवृत्तः।
विचाराः (Your Thoughts)
स्वविचारान् लिखतु (Write your thoughts below)
Loading comment access...